By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: पाणिनीयव्याकरणस्य उत्पत्ति: विकासक्रम: च
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > विचारविमर्शः > पाणिनीयव्याकरणस्य उत्पत्ति: विकासक्रम: च
विचारविमर्शः

पाणिनीयव्याकरणस्य उत्पत्ति: विकासक्रम: च

डॉ.अमनदीप शर्मा
Last updated: 2024/02/12 at 7:18 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

पाणिनीयव्याकरणस्य उत्पत्ति: विकासक्रम: च
पाणिनि:

पाणिनि: सर्वेषां व्याकरणाचार्याणां मूर्धन्य:। एतस्य काल: ख्रिस्तपूर्वम् अष्टमं शतकमिति मन्यते। एष: अधुनातनपाकिस्थाने युसुफजाईकन्धरायां (या ह्यूएनत्सङ्गस्य काले उद्यानम् नाम्ना प्रसिद्धा आसीत् ) वर्तमानस्य शालातुरग्रामस्य वासी आसीत्। अत: तस्य शालातुरीय: इति आह्वा। पाणिनि: इति तस्य गोत्रनाम। तस्य पिता शलङ्क: माता च दाक्षि: अत: एष: शालङ्कि:, दाक्षिपुत्र: पणिपुत्र: इत्यादिभि: बहुभि: नामभि: ज्ञायते। छन्द:सूत्राणां कर्ता पिङ्गल: एतस्य अनुज:। तस्य आचार्य: वर्षोपाध्याय:, मातुल: व्याडि: मातामह: व्यड:। कौत्स-कात्यायनप्रभृतय: एतस्य शिष्या: आसन्।
आख्यायिका एवं वर्तते यत् पाणिनि: महेश्वरात् संस्कृतवर्णमालोपदेशं प्राप्य स्वस्य व्याकरणं रचितवान् अत: माहेश्वरशास्त्रम् इति नाम्ना अपि एतत् व्याकरणं प्रसिद्धम्। अत एवोच्यते–
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नम:।।

पाणिनि: महेश्वरात् कथं वर्णमालोपदेशं प्राप्तवान् एतत्सम्बन्धे नन्दिकेश्वरकाशिकायाम् उक्तम्–
नृत्ताववसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।
उद्धर्तुकाम: सनकादिसिद्धानेतद्विमर्षे शिवसूत्रजालम्।।
सनकादिसिद्धानाम् उद्धर्तुं चिकीर्षमाणेन नटराजशिवेन ताण्डवं कृतम्। नृत्यस्य समाप्तौ स: चतुर्दशवारं स्वस्य ढक्कां नादयामास। तत: पाणिनि: चतुर्दशसूत्रेषु संस्कृतवर्णमालोपदेशम् अधिगतवान्। तेषामाधारेण स: स्वस्य व्याकरणस्य रचनां कृतवान्। पाणिने: व्याकरणं सूत्रबद्धम् अस्ति। सूत्रं नाम किम्?
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदु:।।

यस्मिन् अल्पानि अक्षराणि सन्ति, तथापि यस्य अर्थावगमे सन्दिग्धता न भवति, यत् महोपदेशस्य सार: एव अस्ति तथा च विषयस्य सर्वाणि अङ्गानि स्पृशति, यत् आडम्बररहितं तथा च दोषरहितम् अस्ति तस्य वाक्यस्य नाम सूत्रम् इति सूत्रविदां मान्यता।
पाणिनिकृतस्य सूत्रग्रन्थस्य नाम अष्टाध्यायी इति। एतस्मिन् ग्रन्थे आहत्य ३९९६ सूत्राणि आसन् इति उच्यते।
त्रीणि सूत्रसहस्राणि तथा नवशतानि च।
षण्णवतिश्च सूत्राणां पाणिनि: कृतवान् स्वयम्।।

तथापि सम्प्रति एतेषु ३९८३ एव सूत्राणि उपलभ्यन्ते। एतानि सूत्राणि अष्टसु अध्यायेषु विभक्तानि सन्ति। प्रत्येकम् अध्याये पुन: चत्वार: पादा: वर्तन्ते। एवमाहत्य ३२ पादा: सन्ति।
अष्टाध्याय्यां प्रतिपादिता: विषया: सामान्यत: एवम्–
१) वाक्येभ्य: पदानां सङ्कलनम्। ( अध्याय: १,२)
२) पदानां प्रकृति-प्रत्ययविभाग:। (अध्याय: ३,४,५)
३) प्रकृतिप्रत्ययै: सह आगमादेशादीनां योजनेन परिनिष्ठितपदानां निर्मिति:। (अध्याय: ६,७,८)
पाणिने: महत्तां प्रतिपादयन् भाष्यकार: वदति– ‘प्रमाणभूत: आचार्य: दर्भपवित्रपाणि: शुचावकाशे प्राङ्मुख: उपविश्य महता प्रयत्नेन सूत्राणि प्रणयति स्म। तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुं किं पुनरियता सूत्रेण?’ काशिकाकार: वदति ‘महती सूक्ष्मेक्षिका वर्तते सूत्रकारस्य।’
अष्टाध्यायी (सूत्रपाठ:) धातुपाठ:,गणपाठ:, लिङ्गानुशासनम्, उणादिसूत्राणि च एवमाहत्य पञ्च ग्रन्था: पाणिनिना प्रणीता:। अत: एतत् पञ्चाङ्गव्याकरणम् इत्यपि एतदुच्यते।
सूत्रपाठ उणादिश्च नामलिङ्गव्यवस्थिति:।
धातुराशि: गणानां च पञ्चाङ्गं पाणिने: कृति:।।
अव्युत्पन्नानां रूढशब्दानां व्युत्पत्तिं दर्शयितुं रचितानि उण्-नामकेन तद्धितप्रत्ययेन आरभमाणानि उणादिसूत्राणि। नाम्नां लिङ्व्यवस्थां कथयत् शास्त्रं लिङ्गानुशासनम्।
क्रियावाचकानां धातूनां सङ्ग्रह: धातुपाठ:। अनुगतसामान्यधर्मेण निर्देष्टुम् अर्हाणां शब्दानां सङ्ग्रह: गणपाठ:।
पाणिनीयव्याकरणं वैदिकानां लौकिकानां च उभयविधानां शब्दानाम् अनुशासनं करोति। केवलम् उपचतु:सहस्त्रसूत्रै: वयं असङ्ख्यातानां साधुशब्दानां निर्माणम् अर्थावगमं व्युत्पत्तिदर्शनं च कर्तुं पारयाम:। सङ्क्षेपार्थं पाणिनिना उपयोजिता: उपाया: अभिनवा: सन्ति। उपदेशा:, अनुबन्धा:, प्रत्याहारा:, पूर्वसूत्रपदानाम् अग्रिमसूत्रेषु अनुवृत्ति:, अधिकारसूत्राणि, परसूत्राणाम् असिद्धत्वम् इत्यादिभि: नैकै: युक्तिभि: पाणिनि: व्याकरणे लघुतां सम्पादितवान्। एषा अत्यन्तं वैज्ञानिकी पद्धति:। अत: एव सङ्गणाकाय संस्कृतं तथा पाणिनीयव्याकरणं अत्यननतम् उपकारि वर्तते इति आधुनिकभाषाविद: वैज्ञानिकाश्च वदन्ति।
एतस्मात् ‘पाणिनीयव्याकरणं मानवमस्तिष्कस्य सर्वोत्तमाविष्कारेषु एक: अस्ति’ इति मोनिअर विल्यम्स् उक्तवान्। एतस्य व्याकरणस्य वैज्ञानिकतैव तस्य त्वरितप्रचारस्य प्रसारस्य च कारणम्।
—-

श्री.अभिजित्-तोडकर:
सुभाषितशिक्षणप्रमुख:
संस्कृतभारती, पश्चिममहाराष्ट्रप्रान्त:।

You Might Also Like

हिमसंस्कृतम् न्यास द्वारा हिन्दी दिवसस्य समायोजनम्

दुर्बलस्यैव भवति बलिः, न तु बलवतः

ज्योतिर्लिङ्गेषु काशीविश्वनाथमहिमा

विश्वयुद्धं पर्यावरणक्षतिः च : एकम् चिन्तनम्

बालानां परीक्षाकाले अवसादसमस्या : समाधानानि च(परीक्षाविशेष:)

TAGGED: पाणिनीय व्याकरण, व्याकरण, संस्कृतव्याकरण
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article व्याकरणस्य महत्वं वेदाङ्गत्वं च
Next Article केरलकलारूपाणां राष्ट्रियकार्यशाला फरवरीमासस्य 12 दिनाङ्कतः 16 दिनाङ्कपर्यन्तं प्रचालयिष्यते
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?