स्थानकेषु कार्यालयेषु संस्कृतेन नामोल्लेखनाय संस्कृताकादम्या: सचिवेन श्रीशिवप्रसादखालीद्वारा जनपदाधिकारिभ्य: कृत: निर्देशानुरोध:
उत्तराखण्डे फलकेषु सर्वत्र प्रसरिष्यति संस्कृतम्
हिमसंस्कृतवार्ताः- कुलदीपमैन्दोला।
देवभूमौ देवभाषायाम् अधुना स्थाने स्थाने संस्कृतेन फलकम् शोभायमानम् द्रष्टुं शक्यते । संस्कृतस्य व्यापकप्रचारं दृष्ट्वा उत्तराखण्डसर्वकारेण नामोल्लेनं संस्कृतेन अपि सुनिश्चित: कृत: तदर्थं शासनादेश: निर्गतोस्ति । क्रमेस्मिन् उत्तराखण्डे संस्कृतभाषाया: प्रचारविषये सततसंलग्नसंस्थाया:
उत्तराखण्डसंस्कृत-अकादमीसचिव: श्रीशिवप्रसादखालीवर्य: जनपदाधिकारिभ्य: संस्कृतनामपट्टिका लेखनाय अनुरोधपूर्वकमादिष्टवान्। तैरुल्लिखितं यत् शासनद्वारा अकादमीत: संस्कृतनामलेखनस्य सहयोगापेक्षा कारितोस्ति अतः सर्वेपि जनपदाधिकारिण: अकादम्या: सहयोगेन नामपट्टिकालेखनं कुर्वन्तु इति ।
विदितमेव यथा पूर्वमेव मुख्यसचिवेन, उत्तराखण्डसर्वकारेण 02 फरवरी2024 दिनांके हिन्दीभाषया सह संस्कृतभाषायाः प्रचारार्थं उत्तराखण्डस्य सर्वेषु विभागेषु, बसस्थानकेषु, रेलस्थानकेषु, विमानस्थानकेषु, प्रवेशद्वारेषु, सार्वजनिकस्थानेषु च सर्वेषु विद्यालयेषु/कार्यालयेषु संस्कृतभाषायां नामफलकानि/फलकानि स्थापयितुं च तदर्थं च, संस्कृतानुवादकार्याय “उत्तराखण्डसंस्कृताकादमी, हरिद्वारं” इत्यस्य सहकार्यं प्राप्तुं निर्देशाः अपि दत्ताः सन्ति।
उपर्युक्तानां निरन्तरतायाम् एव अकादमीसचिव: श्रीशिवप्रसादखालीवर्य: जनपदाधिकारिभ्य: संस्कृतनामपट्टिकाया: लेखनाय अनुरोधं कृतवान् यत् कृपया स्वजनपदान्तर्गतं राज्यस्य सर्वेषु सर्वकारीय-/गैरसर्वकारीय- विद्यालयेषु/कार्यालयेषु, बसस्थानकेषु, रेलस्थानकेषु, विमानस्थानकेषु, प्रवेशद्वारेषु, सार्वजनिकस्थानेषु च हिन्दीभाषायाः अपि च संस्कृतभाषायाः प्रयोगं कुर्वन्तु च कृपया सम्बन्धिताधिकारिभ्यः नाम प्लेट्/बोर्ड् स्थापनार्थं निर्देशं कर्तुं तथा च संस्कृतानुवादकार्याय “उत्तरखण्डसंस्कृत-अकादमी, हरिद्वारम्” इत्यस्य समर्थनं प्राप्तुं प्रयत्नः करणीयः इति निर्देशानुरोधं कृतवान्।
उत्तराखण्डे फलकेषु सर्वत्र प्रसरिष्यति संस्कृतम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
