By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HRTC – हिमाचलपथपरिवहननिगमस्य ८०० मार्गे बससेवा: प्रभाविता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HRTC – हिमाचलपथपरिवहननिगमस्य ८०० मार्गे बससेवा: प्रभाविता:
हिमाचलवार्ताप्रादेशिकवार्ता

HRTC – हिमाचलपथपरिवहननिगमस्य ८०० मार्गे बससेवा: प्रभाविता:

डॉ मनोज शैल
Last updated: 2024/02/04 at 12:23 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

हिमाचलपथपरिवहननिगमस्य ८०० मार्गे बससेवा प्रभाविता; स्खलनस्य कारणेन बसयानानि मध्यमार्गे स्थगितानि, शतशः मार्गाः प्रभाविताः

हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।

राज्ये प्रचण्डवृष्ट्या हिमपातेन च हिमाचलपथपरिवहननिगमस्य ८०० मार्गेषु बससेवाः प्रभाविताः अभवन्। हिमाचलपथपरिवहननिगमस्य अतिरिक्तं निजीबसयानानि अपि स्वमार्गेषु गन्तुं न शक्तानि। शिमलाजनपदे २०० तः अधिकाः मार्गाः प्रभाविताः सन्ति। उच्चशिमलाया: मार्गाः हिमपातस्य कारणेन सर्वाधिकं प्रभाविताः अभवन्। एचआरटीसी इत्यस्य अनुसारम् अधिकांश-बसयानानि उपरि शिमलायां निरुद्धानि। अत्र बहूनि बसयानानि सन्ति ये अर्धमार्गेषु निरुद्धानि। एतदतिरिक्तं चम्बा, पाङ्गी, भरमौरं, केलाङ्गं, रोहताङ्गं, अटलकन्दरा, मनाली, डलहौजी, शिमला, किन्नौरं इत्येतेषां परितः अनेकमार्गेषु बससेवाः प्रभाविताः सन्ति। एचआरटीसी-शिमला-मण्डलस्य ५९ मार्गाः स्थगिताः, ५२ मार्गाः च अवरुद्धा: सन्ति।

एतदतिरिक्तं रिकोङ्गपियोनिगमस्य २४ मार्गाः स्थगिताः, त्रिमार्गाः च अवरुद्धा सन्ति। तारादेव्याः मार्गद्वयं स्थगितम्, तारादेवी-नेरवाया: ८५ मार्गाः स्थगिताः, १८ मार्गाः च अवरुद्धा अभवन्। रोहड़ूनिगमस्य २९ मार्गाः स्थगिताः पञ्च मार्गाः निरुद्धा:, रामपुरस्य १३ मार्गाः स्थगिताः सप्त मार्गाः निरुद्धा:, ककसोगस्य सप्त मार्गाः स्थगिताः, शिमलानगरस्य ग्रामीणक्षेत्रेषु ४३ मार्गाः स्थगिताः, १७ मार्गाः निरुद्धा: च सन्ति। एतदतिरिक्तं सोलननगरं प्रति दशमार्गाः स्थगिताः, द्वौ मार्गौ च निरुद्धौ स्तः। राज्यस्य मनाली केलाङ्गं, डलहौजी, पाङ्गी, भरमौरं, किन्नौरं, रोहताङ्ग इत्यत्र अटल कन्दराया: च परितः, मनाली, शिमला इत्यस्य उपरितनक्षेत्रेषु गुरुवासरात् आरभ्य यातायातस्य गतिः स्थगिता आसीत्।

उच्चोच्चक्षेत्रेषु जीवनं स्थगितम् अभवत्

हिमाचलमार्गपरिवहननिगमस्य ८०० मार्गेषु बससेवाः प्रभाविताः सन्ति। राज्यस्य अनेकक्षेत्रेषु बह्वीषु स्थानेषु निजीबसयानानि अपि अटन्ति स्म। बसयानानां न प्रचलनेन जनानां समस्यानां सामना कर्तव्यः आसीत्। राज्यस्य उच्चोच्चक्षेत्रेषु हिमपातस्य कारणेन स्खलितमार्गाणां कारणेन बसयानानि न चालितानि आसन्।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: him sanskrit varta, Himsanskritnews, HP NEWS, hpgovt, HRTC, Transport Minister, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल पथ परिवहन निगम, हिमाचल प्रदेश
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – ई-वाहनानां उपयोगेन २८ लक्षरूप्यकाणां रक्षणं जातम्
Next Article मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- बद्दी-अग्निघटनायाः विषये दुःखं प्रकटितवान्,  सोलनस्य अतिरिक्त-उपायुक्तस्य अध्यक्षतायां निरीक्षणाय उच्चस्तरीयं निर्देशं दत्तवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?