By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – ई-वाहनानां उपयोगेन २८ लक्षरूप्यकाणां रक्षणं जातम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – ई-वाहनानां उपयोगेन २८ लक्षरूप्यकाणां रक्षणं जातम्
हिमाचलवार्ताप्रादेशिकवार्ता

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – ई-वाहनानां उपयोगेन २८ लक्षरूप्यकाणां रक्षणं जातम्

डॉ मनोज शैल
Last updated: 2024/02/04 at 12:15 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – ई-वाहनानां उपयोगेन २८ लक्षरूप्यकाणां रक्षणं जातम्। हरित ऊर्जाराज्यस्य निर्माणार्थं प्रयत्नाः परिणामं दर्शयन्ति

हिमसंस्कृतवार्ता:- शिमला। 

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् परिवहनविभागे १९ विद्युत्वाहनानां उपयोगेन एकवर्षस्य अल्पे काले २८ लक्षं ३२ सहस्रं ८५३ रुप्यकाणां रक्षणम् अभवत्। विभागे ई-वाहनानां उपयोगेन कार्बन उत्सर्जने ८७.३१८ टनपर्यन्तं महती न्यूनता अभवत्। २०२६ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं हिमाचलप्रदेशं हरित ऊर्जाराज्यं कर्तुं राज्यसर्वकारस्य प्रयत्नाः सकारात्मकं परिणामं प्राप्नुवन्ति। एकवर्षपूर्वं परिवहनविभागे १९ ई-वाहनानि समाविष्टानि आसन्। अनेन न केवलं धनस्य रक्षणम् अपितु पर्यावरणसंरक्षणमपि सुनिश्चितम् अभवत्। मुख्यमन्त्री उक्तवान् यत् परिवहनविभागः देशे प्रथमः विभागः अस्ति यः ई-वाहनानि स्वीकरोति। गतवर्षस्य फेब्रुवरी-मासस्य ३ दिनाङ्के परिवहनविभागाय १९ ई-वाहनानि प्रदत्तानि आसन्। राज्यसर्वकारः हरित ऊर्जाराज्यस्य अवधारणां साकारं कर्तुं राज्ये ई-गतिशीलतां प्रवर्धयन् सततविकासं सुनिश्चितं कुर्वन् अस्ति।

मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः परिवहनक्षेत्रस्य सुदृढीकरणाय, नगरक्षेत्रेषु वायुप्रदूषणस्य निवारणाय च प्रतिबद्धः अस्ति। कार्बनपदचिह्नस्य न्यूनीकरणेन जनानां स्वास्थ्ये अपि सकारात्मकः प्रभावः भविष्यति। राज्यसर्वकारः हरित-गतिशीलतायाः आधारभूतसंरचना: अपि सुदृढां कुर्वन् अस्ति। अस्य वित्तवर्षस्य अन्ते यावत् षट् हरितवीथय: सज्जाः भविष्यन्ति। राज्यसर्वकारेण ६८० कोटिरूप्यकाणां प्रावधानेन राजीवगान्धी स्वरोजगारप्रारम्भयोजना आरब्धा। अस्याः योजनायाः प्रथमचरणे अनुद्योगी-युवभ्य: ई-टैक्सी-क्रयणे ५० प्रतिशतं अनुदानं प्रदत्तं भवति। एतानि ई-टैक्सी-यानानि चालयितुं संचालकाः सर्वकारेण सह सहमताः सन्ति। युवभ्य: जीविकाप्रदानस्य सङ्गमेन ई-वाहनानां संचालनमपि बृहत्प्रमाणेन प्रोत्साहनं क्रियते।

राज्यस्य अन्यानि राज्याणि हिमाचलप्रदेशात् प्रेरितानि भवन्ति

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारस्य उद्देश्यम् आयातितजीवाश्म-ईन्धनस्य उपरि निर्भरतां न्यूनीकर्तुं वर्तते, येन तस्मिन् व्ययितधनं जनकल्याणकार्येषु उपयोक्तुं शक्यते। राज्यसर्वकारः राज्यस्य पारिस्थितिकीं रक्षन् पर्यावरणसौहृदयानस्य प्रचारं कुर्वन् अस्ति। देशस्य अन्यराज्यानि अपि एतत् उपक्रमं स्वीकर्तुं प्रेरिताः सन्ति।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, him sanskrit varta, him sanskritam, Himsanskritnews, HPCM, hpgovt, मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल प्रदेश
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP NEWS: HRTC इत्यस्य २५० मार्गाः हिमपातेन प्रभाविताः, निगमस्य ५० बसयानानि अद्यापि निपतितानि
Next Article HRTC – हिमाचलपथपरिवहननिगमस्य ८०० मार्गे बससेवा: प्रभाविता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?