By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मण्ड्यां संस्कृतिसदने संस्कृतशिक्षकाः व्यावहारिकसंस्कृतस्य विविधपक्षेषु प्रशिक्षणं गृहीतवन्तः 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > मण्ड्यां संस्कृतिसदने संस्कृतशिक्षकाः व्यावहारिकसंस्कृतस्य विविधपक्षेषु प्रशिक्षणं गृहीतवन्तः 
हिमाचलवार्तासंस्कृतगतिविधयः

मण्ड्यां संस्कृतिसदने संस्कृतशिक्षकाः व्यावहारिकसंस्कृतस्य विविधपक्षेषु प्रशिक्षणं गृहीतवन्तः 

डॉ मनोज शैल
Last updated: 2024/02/03 at 6:26 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

मण्ड्यां संस्कृतिसदने संस्कृतशिक्षकाः व्यावहारिकसंस्कृतस्य विविधपक्षेषु प्रशिक्षणं गृहीतवन्तः 

हिमसंस्कृतवार्ता- मण्डी। 

विद्यालयेषु विविधविषयेषु गुणवत्तां आनेतुं शिक्षाविभागः सर्वेषु जनपदेषु प्रशिक्षणकार्यक्रमानाम् आयोजनं कुर्वन् अस्ति । एवमेव मण्डीजनपदस्य संस्कृत-शिक्षकाणां प्रशिक्षण- कार्यशाला मण्ड्यां संस्कृतिसदने प्रचलति। इयं प्रशिक्षणकार्यशाला ३० जनवरीतः फेब्रुवरी ३ दिनाङ्कपर्यन्तं आयोजिता अस्ति, यस्या:  आरम्भः प्रतिदिनं प्रातःकाले संस्कृतभाषाया: प्रार्थनासभया  भवति।एतेन सह शिक्षकाः सर्वेषु विद्यालयेषु सप्ताहे दिनद्वयं संस्कृतभाषायां प्रार्थनासभां कर्तुं प्रतिज्ञां कृतवन्तः। अस्मिन् अवसरे संस्कृतभाषायाः चतुर्णां कौशलानाम् चर्चां कृत्वा विद्यालये संस्कृतमाध्यमेन छात्राणां शिक्षणं, छात्राणां मध्ये संस्कृतभाषायां वार्तालापस्य सामर्थ्यस्य निर्माणे च बलं दत्तम्। अस्मिन् अवसरे हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः प्रदेशाध्यक्षः डॉ. मनोजशैलः अवदत् यत् विद्यालयेषु संस्कृतस्य दिशा दशा च संस्कृतशिक्षकाणां उपरि निर्भरं भवति। व्यवहारं विना कोऽपि कार्यम् नास्ति, अतः संस्कृतभाषायां वक्तुं कौशलं प्रति शिक्षकाः यथा यथा अधिकं ध्यानं ददति तथा तथा संस्कृतस्य विस्तारः भविष्यति अस्मिन् अवसरे डॉ. सेवकराम शर्मा उक्तवान् यत् अस्माभिः छात्रान् संस्कृतं वक्तुं प्रेरणीया: तस्य च आरम्भः शिक्षकैः स्वयमेव कर्तव्यं भविष्यति। संस्कृत- कार्यशालायां प्रशिक्षकरूपेण डॉ. मनोहर: अनमोल:, नरेन्द्रकुमार:, हंसराज सांख्यान:, डॉ. सेवकराम: एवं डॉ. मनोजकुमारशैल: प्रशिक्षणं कारयन्ति। तत्र संस्कृतस्य प्रायोगिकं व्यवहारस्य दृष्ट्या संस्कृत-शिक्षकै: विविध प्रयोगात्मकानां प्रदर्शिनी पत्राणां निर्माणमपि कृतम्।

You Might Also Like

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

व्यवस्थापरिवर्तनेन राज्ये “नीलक्रान्तिः” इत्यस्य आरम्भं भवति, युन: स्वग्रामेषु जीविका: लप्स्यन्ते

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृत, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article विक्रमादित्यसिंह: – लोकनिर्माणविभागेन केन्द्रसर्वकारात् मार्गाणां पुनर्स्थापनाय प्राप्तानि ७२ कोटिरूप्यकाणि
Next Article हिमपातानन्तरं  वातावरणं स्वच्छं किन्तु कष्टानि वर्धितानि
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?