By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रीरामायणकथा : रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > श्रीरामायणकथा : रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः
धर्मसंस्कृतिः

श्रीरामायणकथा : रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः

डॉ.अमनदीप शर्मा
Last updated: 2024/01/03 at 8:06 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

श्रीरामायणकथा, लङ्काकाण्डम् (चतुष्पञ्चाशत्तमः सर्गः)
रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः (द्वितीयः खण्डः)
हे प्रभो! मैथिलीसङ्गमम् अप्राप्य हि तस्याः पतिव्रतया तपसा च नूनं त्वं दग्धः असि। यदा त्वं जानकीम् अधर्षः तदा त्वं दग्धः न अभवः कारणं सेन्द्राः देवाः त्वत् बिभ्यति स्म। पर्यगते काले कर्ता पापकर्मणः फलम् अवश्यमेव लभते इत्यत्र संशयः नास्ति। शुभकृत् शुभम् आप्नोति पापकृत् पापम् अश्नुते। विभीषणः तु सुखम् अवाप्नोत् परन्तु त्वम् ईदृशं पापम् अवाप्नोः। सीतानिमित्तं त्वया दूरात् मृत्युः उपाहृतः, किन्तु अधुना सीता तु विशोका रामेण सह विहरिष्यति। अहमेव अल्पपुण्या यस्मात् शोकसागरे पतिता अभूवम्। अहं तथा किम् अकरवं किं च पापम् अकरवं यस्मात् त्वं मां न भाषसे? इत्येवं विलपन्ती मन्दोदरी रावणस्य मृतशरीरे पतित्वा मोहम् अगच्छत्।
मन्दोदर्याः तां दशां दृष्ट्वा रुदत्यः सपत्न्यः सर्वाः तां भृशं रुदतीं मन्दोदरीं समुत्थाप्य वचनम् अब्रुवन् हे देवि! लोकानां स्थितिः अनित्या इति भवती न जानाति? विशेषतः भाग्यविपर्याये राज्ञां चञ्चलाः श्रियः एवमेव भवन्ति। इत्येवम् उक्त्वा ताः सर्वाः अपि रुदन्ति स्म।
एतस्मिन्नन्तरे श्रीरामः विभीषणं वचनम् अब्रवीत् हे राक्षसश्रेष्ठ! शीघ्रं भ्रातुः संस्कारः क्रियतां स्त्रीगणः च परिसान्त्व्यताम्। ततः विभीषणः अब्रवीत् प्रभो! एतं त्यक्तधर्मव्रतं क्रूरं नृशंसम् अनृतं परदाराभिमर्शनं संस्कर्तुं नार्हामि। सः मम भ्राता आसीत् किन्तु सर्वदा हि सः शत्रुवद् अहितकार्ये रतः आसीत्। गुरुगौरवात् सः मम पूज्यः अस्ति चेदपि रावणः मत्कृते पूज्यः नास्ति। हे राघव! प्रथमं तु जनाः मां नृशंसं वक्ष्यन्ति किन्तु अनन्तरं तस्य अगुणान् श्रुत्वा सर्वे पुनः मां सुकृतं वक्ष्यन्ति।
विभीषणस्य तद् वचनं श्रुत्वा धर्मभृतां वरः परमप्रीतः श्रीमान् रामः अब्रवीत् हे राक्षसेश्वर! भवतः प्रभावात् मया जितम् अतः भवतः यद् हितं भवेत् तदेव वदामि। कामम् एषः निशाचरः अधर्मसंयुक्तः, परन्तु सङ्ग्रामेषु नित्यशः बलवान् शूरः अत्यन्तं तेजस्वी च आसीत्। एषः महात्मा बलसम्पन्नः रावणः सुरैरपि पराजितः न श्रूयते। मृत्युपर्यन्तं हि शत्रुता, इदानीं तु तेन सह मम शत्रुतायाः प्रयोजनं नास्ति। अतः हे महाबाहो! शीघ्रं विधिपूर्वकम् अस्य संस्कारः क्रियताम्, धर्मेण भवान् यशोभाग् भविष्यति।
राघवस्य वचनं श्रुत्वा त्वरमाणः विभीषणः हतं भ्रातरं रावणं संस्कारयितुं लङ्कापुरीं प्रविश्य रावणस्य अग्निहोत्रं सत्त्वरं निर्यापयति स्म। सः शकटान्, दारुपात्राणि, अग्नीन्, याजकान्, विविधानि चन्दनकाष्ठानि, सुगन्धीनि अगुरूणि, गन्धान् सुरभीन्, मणिमुक्ताप्रवालानि च निर्यापयति स्म। ततः विभीषणः मुहूर्तेन राक्षसैः परिवारितः भूत्वा माल्यवता सह तस्मिन् कार्ये संलग्नः अभवत्। राक्षसाः मृतराक्षसराजं रावणं क्षौमवस्त्रं धारयित्वा सौवर्णीं दिव्यां शिबिकाम् आरोपयन्। तां शिबिकाम् उत्क्षिप्य दक्षिणाभिमुखाः सर्वे काष्ठानि गृहीत्वा गच्छन्ति स्म। तेषाम् अग्रे अग्रे विभीषणः गच्छति स्म। ततः अन्तःपुरात् रुदत्यः ताः सर्वाः नार्यः तेषां पृष्ठतः अनुयान्ति स्म।
भृशं दुःखिताः ते राक्षसाः रावणं पवित्रे स्थाने स्थापयित्वा वेदोक्तविधानानुसारं चन्दनकाष्ठैः चितायाः निर्माणम् अकुर्वन्। ततः राक्षसराजं तस्यां चितायां स्थापयित्वा विभीषणः विधिपूर्वकम् अग्निम् अददात्। तदनन्तरं सः विभीषणः स्नात्वा आर्द्रवस्त्रेण हि दर्भमिश्रितान् तिलान् प्रदाय राक्षसराजस्य ताः सर्वाः पत्नीः अत्यन्तं विनयेन गम्यताम् इति पुनः पुनः असान्त्वयत्। ततः ताः सर्वाः स्त्रियः नगरं प्राविशन्। स्त्रीषु नगरं प्रविष्टासु राक्षसेन्द्रः विभीषणः श्रीरामम् उपगम्य विनीतवद् अतिष्ठत्। ससुग्रीवः सलक्ष्मणः श्रीरामोऽपि तदा वृत्रं वासवः यथा रिपुं हत्वा अत्यन्तं हर्षम् अलभत। ततः वासवेन दत्तं सशरं शरासनं महत् कवचं च अमुञ्चत्। रिपुनिग्रहात् च श्रीरामः रोषं विमुच्य पुनः सौम्यत्वम् उपागच्छत्।
श्रीरामायणकथा

-प्रदीपः!

You Might Also Like

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

रक्षाबन्धनस्य शास्त्रीयस्वरूपम् आधुनिकसन्दर्भे तन्महत्त्वञ्च

Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः

TAGGED: रामकथा, रामायण, रामायण कथा, श्रीरामायणकथा
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article हिमाचलम्- नववर्षे प्रदेशसर्वकारस्य उपहारः मन्त्रिमण्डलस्य सभायां गृहीताः बहवः महत्त्वपूर्णाः निर्णयाः
Next Article सत्पुरुषः – आत्मौपम्येन सर्वत्र
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?