केन्द्रीय-वाणिज्योद्योग-मन्त्री पीयूष गोयलः उक्तवान् यत् भारतदेशः विचारयति यत् अस्य अर्थव्यवस्था विश्वे तृतीया बृहत्तमा च भविष्यति तथा च लक्ष्यं वर्तते यत् भारतं विश्वस्य विनिर्माणाधाएं, प्रौद्योगिकीकेन्द्र, नवाचारकेन्द्रं च भविष्यति। असी अद्य नवदिल्ल्यां उद्योगमण्डलस्य ‘फिक्की’ इत्येतस्य षण्णवति-तमं वार्षिकसामान्योपवेशनं, वार्षिकसम्मेलनं च सम्बोधितवान्।
भारतदेशः विचारयति यत् अस्य अर्थव्यवस्था विश्वे तृतीया बृहत्तमा च भवेत् -पीयूषगोयलः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment