चतुर्णां वर्षाणाम् अनन्तरं सराजक्षेत्रं प्राप्नोति मुख्यमन्त्री सुक्खू, जयराम ठाकुरेण स्मारिताः पुरातन-प्रतिज्ञाः
हिमसंस्कृतवार्ता:- मण्डी।
मण्ड्याः निर्गमिते वक्तव्ये पूर्वमुख्यमन्त्री प्रतिपक्षनेता च जयरामठाकुरः सराज- विधानसभाक्षेत्रे मुख्यमन्त्रिणः प्रस्तावितस्य प्रवासस्य स्वागतं कुर्वन् अवदत् यत् चतुर्णां वर्षाणाम् अनन्तरं मुख्यमन्त्रिणे सराजक्षेत्रस्य स्मरणम् आगतम्, एषा उत्तमा वार्ता अस्ति, किन्तु तस्मै निवेदनम् अस्ति यत् पूर्वसदृशम् अस्मिन्नवसरे अपि केवलम् आश्वासनं दत्त्वा प्रतिनिवृत्तः न भवेत् तथा च तेन अस्मत् यत् किमपि अपहृतम् अस्ति, तत् प्रत्यार्पयेत्। सः अवदत् यत् मुख्यमन्त्री समग्रस्य प्रदेशस्य मुख्यमन्त्री अस्ति तथा सराजमपि अस्यैव प्रदेशस्य भागः वर्तते। अतः मुख्यमन्त्री अत्र आगत्य जनानां समस्याः केवलं शृणोतु एव न, अपि तु तासां समाधानस्य दिशि अपि दृढानि पदानि उत्थापयेत्।
प्रतिपक्षनेता अवदत् यत् आपदायाः समये मुख्यमन्त्री अत्र आगतवान् आसीत् तथा तेन अनेकाः घोषणाः कृताः, प्रतिज्ञाश्च कृताः, किन्तु ताः अद्यावधि धरातले न अवतीर्णाः। आपदायाः कारणात् क्षेत्रस्य स्थितिः अत्यन्तं विपन्ना अस्ति। अद्यापि प्रायः पञ्चदश (१५) मार्गाः अवरुद्धाः सन्ति। येषु मार्गेषु पूर्वं वाहनानि धावन्ति स्म, अद्य तेषु मनुष्याणाम् अश्वतराणां च चलनमपि दुष्करं सञ्जातम् अस्ति। मार्गाणां क्षतेः कारणात् पञ्चदश (१५) लोकयानानां (बस) मार्गाः अवरुद्धाः सन्ति। येषां जनानां गृहाणि आपदि प्रवाहितानि, ते अद्यापि विश्रान्तेः पुनर्वासस्य च प्रतीक्षां कुर्वन्तः सन्ति। आपदायाः क्षतेः पूरणाय सर्वकारस्य पक्षतः अपेक्षितानि पदानि न उत्थापितानि सन्ति। केन्द्रसर्वकारात् सप्तत्रिंशदधिक- एकशतकोटिरूप्यकाणां (१३७ कोटि) व्ययेन निर्मितव्यस्य ‘चाहे-चौक जञ्जैहली’ मार्गस्य स्वीकृतिं प्राप्तुं सफलता प्राप्ता अस्ति तथा अस्य कार्यं निविदा-प्रक्रियायाः माध्यमेन अग्रे वर्धमानम् अस्ति।
जयरामठाकुरः अवदत् यत् आपदायाः विनाशस्य अतिरिक्तं काङ्ग्रेस-सर्वकारेण सराजक्षेत्रे पूर्वतः प्रचलन्ति विकासकार्याणि अपि स्थगयितुं संस्थानानि च पिधातुं कार्यं कृतम् अस्ति। ‘पॉलिटेक्निक- महाविद्यालयस्य’ कृते सर्वोच्चन्यायालयात् वनस्वीकृतेः प्राप्तेः, कोटिशः रूप्यकाणाम् आयव्ययकस्य उपलब्धतायाः अनन्तरं भवननिर्माणस्य निविदा-प्रक्रिया पूर्णा अभवत्, किन्तु काङ्ग्रेस-सर्वकारेण कार्यं स्थगितं कृतं तथा महाविद्यालयः अन्यस्मिन् विधानसभाक्षेत्रे स्थानान्तरितः। मुख्यमन्त्री विधानसभायाः अन्तः बहिश्च एनं सराजक्षेत्रे एव स्थापयितुम् आश्वासनं दत्तवान् आसीत्, किन्तु अधुनावधि किमपि न अभवत्। जञ्जैहलीक्षेत्रे उपमण्डलाधिकारी उपमण्डल- आरक्षी- अधीक्षकस्य च कार्यालये पिहिते कृते, बालीचौकीक्षेत्रे नागरिक- चिकित्सालयः (सिविल अस्पताल) पिहितः कृतः, यदा तु तस्य भवनं पूर्वमेव सज्जम् अस्ति। छतरीक्षेत्रे सप्तकोटिरूप्यकाणां व्ययेन स्नातक- महाविद्यालय- भवनस्य निर्माणकार्यं, गाड़ागुशैणी- क्षेत्रे महाविद्यालयभवनस्य कार्यमपि स्थगितं कृतम्। जञ्जैहलीक्षेत्रे मण्डलवनाधिकारिणः कार्यालयः पिहितः कृतः, बागाचनोगी-क्षेत्रस्य स्नातक- महाविद्यालयः निरधिसूचितः कृतः। इयम् आवलिः अतीव दीर्घा अस्ति, या काङ्ग्रेस- सर्वकारस्य सराजक्षेत्रं प्रति उपेक्षां दर्शयति।
जयरामठाकुरः मुख्यमन्त्रिणः सराजप्रवासे स्वागतं कुर्वन् अवदत् यत् मुख्यमन्त्री अत्र आगच्छेत्, जनानां दुःख-पीडां शृणुयात् आपदा- प्रभावित- परिवाराणां च समस्यानां समाधानं कुर्यात्। सः अकथयत् यत् मुख्यमन्त्री आपदायाः समये याः प्रतिज्ञाः कृतवान् आसीत्, तासां गणनां क्षेत्रस्य जनता याचमाना अस्ति। केवलं घोषणानां करणेन आश्वासनानां दानेन च जनानां समस्याः दूरीभूताः न भविष्यन्ति। सर्वकारेण अवरुद्धान् मार्गान् पुनः स्थापयितुं, क्षतिग्रस्तमार्गाणां संस्कारं कारयितुं, प्रभावितपरिवाराणां पुनर्वासं कर्तुं तथा स्थगितानि विकासकार्याणि पुनः आरब्धुं तत्कालं पदानि उत्थापनीयानि।
