खण्डस्तरीयस्य संस्कृतप्रतियोगितायाः भव्यसमापनम्
वार्ताप्रेषक: – रघु वत्स:
हरियाणा राज्यस्य फरीदाबादजनपदे राजकीय-माध्यमिक-विद्यालये, प्रह्लादपुरे (माजरा-डीग्) संस्कृतसप्ताहस्य अन्तर्गतं आयोजितायाः खण्डस्तरीय-संस्कृतप्रतियोगितायाः भव्यं समापनम् अभवत्। प्रतियोगितायाः आयोजनं संस्कृतायामस्य सौजन्येन स्वर्गीय-डॉ. रुद्रदत्तशास्त्रिणः स्मृतौ कृतम्। प्रतियोगितायां खण्डस्य विभिन्नविद्यालयेभ्यः षष्ठीकक्षातः अष्टमीकक्षापर्यन्तं छात्राः छात्राश्च उत्साहपूर्वकं भागं गृहीतवन्तः। श्लोकोच्चारणेन, गीतिकया, लघुनाटिकया तथा भाषणेन च ते संस्कृतभाषायां स्वप्रतिभां प्रदर्शितवन्तः।

कार्यक्रमस्य संयोजकः सेवानिवृत्तः प्रवक्ता इन्द्रसैनशास्त्री आसीत्, कार्यक्रमस्य अध्यक्षता च सेवानिवृत्ता प्रवक्त्री गीतार्या अकरोत्। मुख्यातिथिरूपेण स्वर्गीय-डॉ. रुद्रदत्तशास्त्रिणः धर्मपत्नी श्रीमती वीनूशर्मा उपस्थिताऽभवत्। अस्मिन् अवसरे सुशीलयादवशास्त्री, महेन्द्रशर्माशास्त्री, प्रो. जोरावरसिंहशास्त्री (नेहरूमहाविद्यालयः), राकेशशास्त्री, पुरुषोत्तमशास्त्री इत्यादयः अनेकाः संस्कृतविद्वांसः विशेषरूपेण उपस्थिताः आसन्।

प्रतियोगितायां भागीरथशास्त्री, सुन्दरभडाना, मोहनशास्त्री, देवराजशास्त्री, वीरेन्द्रलाम्बा, रेखागोहली तथा सुषमाराणी निर्णायकमण्डलस्य सदस्यरूपेण छात्राणां छात्राणां च प्रतिभायाः मूल्याङ्कनम् अकुर्वन्।
श्लोकोच्चारणे प्रियांशी प्रथमस्थानं, रुचिका द्वितीयस्थानं तथा दिव्या तृतीयस्थानं प्राप्तवती।

गीतिका-प्रतियोगितायां सुहाना प्रथमस्थानं, तनिष्का द्वितीयस्थानं तथा हेमा तृतीयस्थानं प्राप्तवत्यः।
लघुनाटिका-संवादे हर्षिता, आकांक्षा, अंकिता तथा हितांशी प्रथमस्थानं प्राप्तवत्यः। सुमनः, तानिषः तथा रुचिका द्वितीयस्थानं प्राप्तवन्तः। प्राची तथा संध्या तृतीयस्थानं प्राप्तवत्यौ।

भाषणप्रतियोगितायां सुमनः प्रथमस्थानं, कञ्चन द्वितीयस्थानं तथा श्वेता तृतीयस्थानं प्राप्तवत्यः। सर्वेभ्यः प्रतिभागिभ्यः प्रोत्साहनपुरस्कारान् प्रदाय तेषाम् उत्साहवर्धनं कृतम्।

कार्यक्रमस्य मंचसञ्चालनं संस्कृतायामस्य जिलामहामन्त्री सोमदत्तशास्त्री अकरोत्। सः संस्कृतभाषायाः महत्त्वं तथा समाजे तस्याः उचितस्थानं विषये उपस्थितजनसमूहम् अवगतवान्। विद्यालयस्य मुख्याध्यापकः रविकान्तगुप्तः सर्वेषां विद्वदतिथीनां तथा विभिन्नविद्यालयेभ्यः आगतानां छात्राणां छात्राणां च चन्दनतिलकेन स्वागतं कृतवान्।
प्रतियोगितायां स्थानं प्राप्तवद्भ्यः विद्यार्थिभ्यः अतिथिभिः प्रशस्तिपत्राणि, पदकानि तथा स्मृतिचिह्नानि प्रदाय सम्मानिताः कृताः। प्रतियोगितायाः संयोजकः इन्द्रसैनशास्त्री संस्कृतभाषां आधुनिकयुगस्य आवश्यकता इति प्रतिपाद्य तां संस्काराणां भाषाम् अवदत्।
अस्मिन् अवसरे संस्कृतायामस्य जिलाध्यक्षः रघुशास्त्री, प्राचार्यः जितेन्द्रकुमारः, मुख्याध्यापकः समरदेशवालः, ओमपालशास्त्री, धर्मवीरशर्मा, राकेशकुमारः इत्यादयः अनेकाः शिक्षकाः गणमान्यजनाश्च उपस्थिताः आसन्।
