
संस्कृतप्रतिभान्वेषणप्रतियोगिता–२०२६ सम्पन्ना
हिमसंस्कृतवार्ता:– उत्तरप्रदेशसंस्कृणम्।
शाहजहाँपुरम्। भाषाविभागस्य उत्तरप्रदेशशासनस्य अधीनस्थेन उत्तरप्रदेशसंस्कृतसंस्थानेन, लखनऊद्वारा आयोजितायाः संस्कृतप्रतिभान्वेषणप्रतियोगिता–२०२६ अन्तर्गतं जनपदस्तरीयोः संस्कृतगीत-संस्कृतसामान्यज्ञानप्रतियोगितयोः आयोजनं श्रीदैवीसम्पद् ब्रह्मचर्यसंस्कृतमहाविद्यालये, मुमुक्षु आश्रमे, प्राचार्यस्य श्रीआदेशकुमारपाण्डेयस्य निर्देशनं विधिवत् सम्पन्नम्।
कार्यक्रमस्य शुभारम्भः वैदिकमङ्गलाचरणेन अभवत्। कार्यक्रमस्य अध्यक्षतां संस्कृतस्य वरिष्ठविद्वान् आचार्यः सत्येन्द्रपाठकः अकरोत्। प्रतियोगितायाः संयोजकेन आचार्यचन्दनकुमारआर्येण उपस्थितानाम् अतिथीनां, शिक्षकाणां, अभिभावकानां तथा प्रतिभागिनां स्वागतं कृत्वा प्रतियोगितायाः उद्देश्यम् एवं महत्त्वं प्रकाशयत्।
छात्रैः दर्शिता संस्कृतप्रतिभा
प्रतियोगितायां छात्र-छात्राभिः उत्साहपूर्वकं सहभागित्वं कृत्वा स्वप्रतिभायाः प्रभावशाली प्रदर्शनं कृतम्। संस्कृतगीतप्रतियोगितायां आद्यागुप्ता प्रथमस्थानं, महिमा द्वितीयस्थानं तथा रजनीशः तृतीयस्थानं प्राप्तवन्तः। रामांशीमिश्रा, आकांक्षायादवः तथा मुस्कानः सान्त्वनापुरस्कारं प्राप्तवन्तः।
संस्कृतसामान्यज्ञानप्रतियोगितायां शाश्वतयादवः प्रथमस्थानं, श्रेष्ठअग्रवालः द्वितीयस्थानं तथा हर्षकुमारः तृतीयस्थानं प्राप्तवन्तः। देवांशानारायणः, आकांक्षा तथा आदित्यकुमारः सान्त्वनापुरस्कारैः सम्मानिताः।
प्रतियोगितायां प्रतिभागिनः संस्कृतभाषायाः, साहित्यस्य, संस्कृतेः तथा सामान्यज्ञानस्य विविधेषु प्रश्नेषु स्वज्ञानं प्रदर्शितवन्तः। संस्कृतगीतप्रतियोगितायां प्रतिभागिभिः मधुरस्वरेण संस्कृतगीतानि प्रस्तुतानि, येन उपस्थिताः अतिथयः मन्त्रमुग्धाः अभवन्।
निर्णायकमण्डले विद्वांसः उपस्थिताः
प्रतियोगितयोः निर्णायकमण्डले स्वामीशुकदेवानन्दविश्वविद्यालयस्य शाहजहाँपुरस्य संगीतविभागाध्यक्षाः डॉ. कविता भटनागर, आर्यकन्या-अन्तरमहाविद्यालयस्य सेवानिवृत्ता प्राचार्या डॉ. अर्चना, आर्यमहिलामहाविद्यालयस्य सेवानिवृत्ता प्राचार्या डॉ. कनकरानी तथा संजयकुमारसरस्वतीविद्यामन्दिरस्य संस्कृतप्रवक्ताः आचार्यः सन्तकुमारमिश्रः सम्मिलिताः आसन्।
कार्यक्रमे डॉ. धारणा याज्ञिकी, सुनीलकुमारः, प्रेमदासः, एकतासिंहः, रामदेवमिश्रः, विनयतिवारी, सत्यप्रकाशत्रिपाठी इत्यादयः शिक्षकाः, अभिभावकाः तथा गणमान्याः जनाः उपस्थिताः अभवन्।
उपस्थितैः अतिथिभिः शिक्षकैश्च उत्तरप्रदेशसंस्कृतसंस्थानस्य संस्कृतप्रतिभान्वेषणप्रतियोगितायाः प्रशंसा कृता। तैः उक्तं यत् एतादृशाः प्रतियोगिताः छात्रेषु संस्कृतभाषायाः प्रति रुचिं, ज्ञानं, आत्मविश्वासं च वर्धयन्ति तथा नवप्रतिभानां अन्वेषणे महत्त्वपूर्णं योगदानं ददति।
