By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: नैमिषारण्ये संस्कृतसप्ताहस्य शुभारम्भः, क्रीडया संस्कृतशिक्षणम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > नैमिषारण्ये संस्कृतसप्ताहस्य शुभारम्भः, क्रीडया संस्कृतशिक्षणम्
संस्कृतगतिविधयः

नैमिषारण्ये संस्कृतसप्ताहस्य शुभारम्भः, क्रीडया संस्कृतशिक्षणम्

सत्येंद्र पाठक:
Last updated: 2026/08/23 at 8:12 PM
सत्येंद्र पाठक:
Share
1 Min Read
SHARE
Highlights


नैमिषारण्ये संस्कृतसप्ताहस्य शुभारम्भः, क्रीडया संस्कृतशिक्षणम्

हिमसंस्कृतवार्ताः — उत्तरप्रदेशसंस्करणम्।

सीतापुरम्। संस्कृतभारती, सीतापुरस्य तत्त्वावधानेन नैमिषक्षेत्रस्थिते आत्मानन्दसंस्कृतशिक्षणसंस्थाने संस्कृतसप्ताहस्य शुभारम्भः उत्साहपूर्वकं सम्पन्नः। अस्मिन् अवसरे बटुकानां कृते विविधभाषाक्रीडानां माध्यमेन संस्कृतभाषायाः शिक्षणं सहजतया रोचकरूपेण च प्रदत्तम्। क्रीडामाध्यमेन संस्कृतशब्दानां प्रयोगं वाक्यरचनां च ज्ञात्वा विद्यार्थिषु संस्कृतभाषायाः प्रति विशेषः उत्साहः दृष्टः।

कार्यक्रमे संस्कृतभारत्याः कार्यकर्ता अंशुगुप्तः विविधाः भाषाक्रीडाः आयोज्य बालकेभ्यः संस्कृतशब्दानां प्रयोगं तथा सरलवाक्यनिर्माणं च अभ्यासितवान्। तेन ‘मम स्थाने संस्कृतम्’ इति ध्येयवाक्यं प्रतिपाद्य संस्कृतसम्भाषणस्य शिक्षणं तथा दैनिकजीवने संस्कृतभाषायाः प्रयोगं च प्रति विशेषं बलं दत्तम्।

अंशुगुप्तेन उक्तं यत् संस्कृतभारती १९८१ तमवर्षात् निरन्तरं संस्कृतभाषायाः पुनरुज्जीवनाय कार्यं कुर्वती अस्ति तथा देशस्य विभिन्नभागेषु जाति-धर्म-वर्गभेदान् अतिक्रम्य बहूनां जनानां संस्कृतसम्भाषणप्रशिक्षणे योगदानं दत्तवती। तेन प्रतिपादितं यत् क्रीडामाध्यमेन अधिगता भाषा बालकानां मनसि सहजतया स्थिरा भवति। एतेन संस्कृतभाषायाः प्रति विद्यमानः संकोचः दूरीभवति तथा भाषायाः प्रति स्वाभाविकः अनुरागः विकसितः भवति।

कार्यक्रमे शिक्षणसंस्थायाः संस्थापकः आचार्यः सर्वेशशुक्लः अपि उपस्थितः आसीत्। स्वीयाशीर्वचने तेन बटुकान् सम्बोध्य उक्तं यत् संस्कृतं केवलं भाषा नास्ति, अपितु भारतीयसंस्कृतेः संस्काराणां च आत्मा अस्ति। नैमिषारण्ये ऋषिमुनीनां पावनतपःस्थले संस्कृतसप्ताहस्य आयोजनं संस्कृतप्रचारस्य दिशि शुभं संकेतं वर्तते।

तेन संस्कृतभारत्या सञ्चाल्यमानस्य अभियानस्य प्रशंसा कुर्वता उक्तं यत् बाल्यावस्थायामेव बालकेषु संस्कृतभाषायाः प्रति रुचिजननं भाविपीढीं स्वकीयसांस्कृतिकमूलैः संयोजयितुं प्रभावशाली माध्यमं भवति।

संस्कृतसप्ताहस्य अन्तर्गतं आगामीषु दिवसेषु अपि विविधाभिः रोचकाभिः गतिविधिभिः बटुकान् संस्कृतभाषया सह संयोजयितुं प्रयासः निरन्तरं करिष्यते।

You Might Also Like

अखिलभारतीयसंस्कृतपरिषदः प्रतियोगितायां प्रिया पाण्डेय प्रथमस्थाने

भारतीयज्ञानपरम्परायां शास्त्रार्थपरम्परा अतीव प्राचीना वैज्ञानिकस्वरूपा च — प्रो. कान्ताभाटिया

अखिलभारतीयसंस्कृतपरिषदि संस्कृतसप्ताहमहोत्सवः सम्पन्नः

एकविंशतिदिवसीयः ऑनलाइन-संस्कृत-सम्भाषणवर्गस्य सम्पूर्तिसमारोहः सम्पन्नः

पद्मविभूषण डॉ. आदित्यनाथझामहोदयस्य व्यक्तित्वं कृतित्वं च (जयन्तीविशेष:)

TAGGED: क्रीडया संस्कृतशिक्षणम्, नैमिषारण्ये संस्कृतसप्ताहस्य शुभारम्भः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article अन्तिमावसरः; ‘दारिद्र्य-रेखात: अधस्तन’ (BPL) सूच्यां समावेशनार्थं योग्याः परिवाराः २० दिनाङ्कं यावत् कुर्वन्तु आवेदनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?