द्वितीयायां एकदिवसीयक्रिकेटस्पर्धायां इंग्लैण्डदेशेन भारतं पराजितम्, श्रृंखला १-१ इति समतायाम्
द्वितीयायां एकदिवसीयप्रतिस्पर्धायां इंग्लैण्डदेशेन भारतं चतुर्भिः स्तौभैः (विकेट्-माध्यमेन) पराजितम्। टॉस-क्रीडायां पराजित्य प्रथमं कन्दुकताडनं कुर्वन् भारतस्य सम्पूर्णः दलः ४४ चक्रेषु २३३ धावनाङ्कान् (रन्) कृत्वा सीमितः अभवत्। भारतपक्षात् श्रेयस अय्यरेण ६६ धावनाङ्काः, विराट कोहलिना च ६५ धावनाङ्काः रचिताः। इंग्लैण्डदेशस्य कृते जोफ्रा आर्चरेण गस एटकिंसनेन च त्रयः-त्रयः क्रीडकाः (विकेटाः) निष्कासिताः। साकिब महमूदाय द्वौ क्रीडकौ प्राप्तौ।उत्तरपक्षे इंग्लैण्डदलेन ४५ तमे चक्रे षट् क्रीडकान् (विकेटान्) त्यक्त्वा स्वलक्ष्यं सम्प्राप्तम्। अनुभवशालिना बलेन जो रूटेन अविजित्य ९९ धावनाङ्कानां क्रीडां कृत्वा दलं विजयं प्रति नीतम्। भारतपक्षात् गुरनूर बरारेण द्वौ क्रीडकौ निष्कासितौ। जो रूटः सर्वश्रेष्ठः क्रीडकः’ चितः।
द्वितीयायां एकदिवसीयक्रिकेटस्पर्धायां इंग्लैण्डदेशेन भारतं पराजितम्, श्रृंखला १-१ इति समतायाम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
