राष्ट्रीयस्वयंसेवकसङ्घस्य (आर.एस.एस.) यात्रा सङ्घटित-स्वैच्छिककार्याणां शक्तेः तथा च निःस्वार्थसेवामूल्यानां चिरस्थायिप्रमाणं वर्तते
उपराष्ट्रपतिः सी. पी. राधाकृष्णन् महोदयः अवदत् यत् राष्ट्रीयस्वयंसेवकसङ्घस्य (आर.एस.एस.) यात्रा सङ्घटित-स्वैच्छिककार्याणां शक्तेः तथा च निःस्वार्थसेवामूल्यानां चिरस्थायिप्रमाणं वर्तते। नवदिल्ल्यां श्यामजाजू-अनुपमत्रिवेद्योः ‘आरएसएस@100: सेवा, एकता और बलिदान की एक शताब्दी’ इति पुस्तकस्य विमोचनं कुर्वन् सः इदं कथितवान्।
उपराष्ट्रपतिना उक्तं यत् राष्ट्रीयस्वयंसेवकसङ्घः निःस्वार्थसेवया राष्ट्रनिर्माणेण च एकतायाः राष्ट्रियचेतनायाः च आदर्शान् सुदृढ़ान् अकरोत्। सः अवदत् यत् सङ्घस्य शताब्द्याः यात्रा इदं दर्शयति यत् स्थायी राष्ट्रीयप्रगतिः केवलं शासकीयसंस्थानां माध्यमेन एव न, अपितु नागरिककर्तव्यानां पालनेन स्वैच्छिकसेवया च सम्भवति। श्री राधाकृष्णन् महोदयः अकथयत् यत् सङ्घस्य यात्रा भारतस्य सांस्कृतिकमूलानां, आनुवंशिकतायाः (विरासतः) परम्पराणां च पुनर्जीवनस्य, सुदृढ़ीकरणस्य तथा च पुनर्निर्माणस्य यात्रा अस्ति।
रक्षामन्त्रिणः वक्तव्यम्
अस्मिन् अवसरे रक्षामन्त्री राजनाथ सिंहः अवदत् यत् आर.एस.एस. वर्गेण प्रत्येकस्यां प्रतिकूलायाम् परिस्थितौ राष्ट्रियहितानि, सेवां लोकतन्त्रं च रक्षितुं महत्त्वपूर्णा भूमिका निर्वूढा। श्री सिंहः अकथयत् यत् सङ्घः कस्यापि व्यक्तेः मूल्याङ्कनं तस्य धर्मेण न, अपितु राष्ट्रं प्रति तस्य समर्पणेन करोति। रक्षामन्त्रिणा प्रतिपादितं यत् सङ्घः सर्वदा ‘राष्ट्रं सर्वोपरि’ इति भावनया एव कार्यं कृतवान्।
राष्ट्रीयस्वयंसेवकसङ्घस्य (आर.एस.एस.) यात्रा सङ्घटित-स्वैच्छिककार्याणां शक्तेः तथा च निःस्वार्थसेवामूल्यानां चिरस्थायिप्रमाणं वर्तते
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
