By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रेरकःप्रसङ्गः- स्वर्गः नरकः वयम् च
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतबोधकथा > प्रेरकःप्रसङ्गः- स्वर्गः नरकः वयम् च
संस्कृतबोधकथा

प्रेरकःप्रसङ्गः- स्वर्गः नरकः वयम् च

डॉ.अमनदीप शर्मा
Last updated: 2026/07/17 at 11:48 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
5 Min Read
SHARE

स्वर्गः नरकः वयम् च
मरणोत्तरं स्वर्गे स्थानं प्राप्येत इति कृते मनुष्यः आजीवनं कियान्तं संघर्षं करोति, प्रतीयेत् यत् स्वर्गः काचित् नवीना गृहनिर्माणसंस्था (Housing Society) अस्ति यत्र ‘१ BHK’ आवासं आरक्षितं कर्तुं अंशाः (Points) सञ्चेतव्याः स्युः।
परन्तु मनसि एकः प्रश्नः उदेति।
यदि वयम् पूर्वमेव स्वर्गे वसन्तः स्याम तर्हि?
क्षणमेकं प्रातः उत्थाय स्वपरिवेशं ध्यानेन पश्यन्तु।
पिञ्जं (Button) नोदनं चेत् प्रकाशः प्रज्वलति। द्वितीयं नुन्नं चेत् व्यजनं चलति। तृतीयं नुन्नं चेत् शीततापयन्त्रम् (AC) आरभ्यते। नलिका उद्घाटिता चेत् जलं आगच्छति। अनिलचूलिका (Gas) प्रज्वालिता चेत् कतिपयेष्वेव निमेषेषु भोजनं सिद्धम्। चलदूरभाषः (Mobile) निष्कासितः चेत् जगतः सर्वमपि ज्ञानं हस्ते समायाति। यदि कोऽपि मित्रं अमेरिकादेशे अपि स्यात्, तर्हि क्षणाभ्यन्तरे तस्य मुखं सम्मुखं दृश्यते।
एतत्सर्वं वयं तथा सहजतया स्वीकुर्मः, प्रतीयते यत् एतानि सौविध्यानि पृथिव्याः न अपितु अस्माकं जन्मसिद्धाः अधिकाराः स्युः।

इतः केवलं द्विशतवर्षपूर्वतनं कञ्चित् राजानं यदि अस्माकं गृहम् आनेष्यते, तर्हि सः गृहात् बहिर्गन्तुमेव न इच्छेत्।
“किमेतत्?” — “उष्णं जलम्।”
“किमिदम्?” — “शीतला वायुः।”
“किमेतत्?” — “विश्वस्य निखिलं ज्ञानम्।”
“किमिदम्?” — “दशसु निमेषेषु ‘पिज्जा’ गृहे समुपस्थितः।”

राजा वदिष्यति, “मया आजीवनं राज्यं कृतम्, युद्धाणि जितानि, कोषाः सञ्चिताः, किन्तु एतत् सुखं मया कदापि न प्राप्तम्!”
अर्थात् सत्यं तु एतत् अस्ति यत् अद्यतनः कश्चित् सामान्यः मानवः कतिपयेषु विषयेषु पुरातनात् राज्ञः अपि अधिकं विलासिपूर्णं जीवनं जीवति।
किन्तु कौतुकं पश्यन्तु…
वयं एतेषां विषयाणां प्रति ध्यानमेव न दद्मः। यतो हि मनुष्यस्य समीपे यद् भवति, सः तस्य मूल्यं न जानाति।
शीततापयन्त्रं (AC) चलति, अतः सन्तोषः नास्ति; तत् स्थगितं चेत् दुःखं भवति।
चलदूरभाषः अस्ति, अतः हर्षः नास्ति; सङ्केतः (Network) नष्टः चेत् प्रतीयते यत् संसार एव समाप्तः।
गृहम् अस्ति, अतः सुखं नास्ति; प्रतिवेशिनः गृहं विशालं अस्ति, अतः कष्टं भवति।
वाहनम् अस्ति, अतः आनन्दः नास्ति; तस्य समीपे महत्तरं वाहनम् अस्ति, अतः मनसि खेदः भवति।
मनुष्यः स्वकीये स्वर्गे तिष्ठन् अन्येषाम स्वर्गेण सह तुलनां करोति।

नाणकस्य द्वितीयः पक्षः (सिक्के का दूसरा पहलू)
परन्तु अस्मिन्नेव समये पृथिव्याम् एका अन्या अपि स्थितिः अस्ति।
अद्यापि लक्षशः जनाः पेयजलाय पङ्क्तौ तिष्ठन्ति। केषाञ्चित् समीपे दृढं गृहं नास्ति। केषाञ्चित् कृते वारद्वयस्य भोजनस्य अपि निश्चयः नास्ति। कतिपयाः बालकाः शिक्षां न प्राप्नुवन्ति। केषाञ्चित् समीपे परिधातुं योग्यानि वस्त्राणि अपि न सन्ति।
वयं यान् विषयान् “सामान्यान्” मन्महे, ते अनेकेषां जनानां जीवनस्य महत्तमं स्वप्नं भवन्ति।
अस्माभिः नलिकायाः प्रवहद् जलं दृश्यते; तैः तु जलाय क्रोशशः पादाभ्यां चलितव्यं भवति।
अस्माकं शीततापयन्त्रस्य दूरनियन्त्रकं (Remote) न मिलति, अतः क्रोधः आयाति; तैः तु घर्मात् रक्षितुं वृक्षस्य छाया अन्वेष्टव्या भवति।
वयं भोजननियन्त्रणयोजनां (Diet Plan) अन्विष्यामः; ते तु चिन्तयन्ति यत् आगामी भोजनं कुतः आगमिष्यति।
अत एव अहं मन्ये यत् स्वर्गः नरकः च मरणोत्तरकालस्य सङ्केताः (Addresses) न सन्ति।
तौ इहैव स्तः। अस्मिन्नेव नगरे, अस्मिन्नेव ग्रामे, कदाचित् तु एकस्यामेव वीथिकायाम् (सड़क)।
एकस्मिन् गृहे बालकः नूतनचलदूरभाषस्य मन्दगत्याः कारणात् रुष्टः अस्ति; सम्मुखस्थे गृहे च कश्चित् बालकः अन्तर्जालकक्षायाः (Online Class) कृते चलदूरभाषस्य अभावात् पठितुं न शक्नोति।
एकस्मै पुरुषाय उष्णं जलं विलम्बेन प्राप्तम्, अतः सः खिद्यते; अन्यस्मै तु केवलं जलमेव प्राप्येत, तर्हि सः सहर्षं स्नानं करोति।
भेदः केवलं परिस्थितीनां नास्ति, भेदः दृष्टिकोणानाम् अपि अस्ति।
यतो हि केचन जनाः नरकसदृश्यां स्थित्याम् अपि हसन्ति, केचन च स्वर्गे वसन्तः अपि २४ घण्टाः यावत् कुण्ठिताः भवन्ति।
किं अस्ति समाधानम्?
मनुष्यस्य एकः स्वभावः अतिविचित्रः अस्ति—यद् तस्य समीपे नास्ति, तस्य सूचीं सः प्रतिदिनं रचयति। किन्तु यद् तस्य समीपे अस्ति, तस्य सूचीं सः कदापि न निर्माति।
यदि प्रत्येकः जनः रात्रौ शयनात् पूर्वं केवलं पञ्च वाक्यानि लिखेत्:
१. अद्य अहं स्वच्छन्दं श्वासं ग्रहीतुं शक्नोमि।
२. अद्य मम समीपे पातुं स्वच्छं जलं वर्तते।
३. अद्य मम समीपे खादितुं अन्नम् अस्ति।
४. अद्य मम समीपे शयनाय छत्रं/स्थानं वर्तते।
५. अद्य मम आत्मीयाः सम्बन्धिनः मया सह सन्ति।
…तर्हि सम्भवतः जीवनं प्रति दृष्टिकोणे एव पूर्णतया परिवर्तिष्यते।
वयं स्वर्गं अन्विष्यामः, किन्तु सम्भवतः स्वर्गः न किमपि स्थानं अपितु कश्चन ‘अनुभूतिः’ अस्ति।
नरकः अपि न किमपि स्थानं अपितु काचित् ‘विस्मृतिः’ अस्ति।
यद् अस्माकं समीपे अस्ति, तस्य मूल्यं विस्मरणमेव ‘नरकः’ अस्ति।
यद् अस्माकं समीपे अस्ति, तं प्रति कृतज्ञता एव ‘स्वर्गः’ अस्ति।
शेषं तु, मरणाद् अन्तरं किं प्राप्स्यते इति कोऽपि न जानाति। किन्तु जीवन्तः पृथिवीसदृशं ग्रहम्, श्वासार्थं वायुम्, पानाय जलम्, भक्षणाय अन्नम्, स्नेहकर्तॄन् जनान्, तथा च गुलिकानुदनेन प्राप्यमाणाः सहस्रशः सुविधाः प्राप्य अपि निरन्तरं दुःखी भवितुम्… एतदपि स्वयमेव एकः उपहासः अस्ति।
सामाजिकमाध्यमे प्रसरितस्य हिन्दीलेखस्य संस्कृतानुवादः

You Might Also Like

यक्षयुधिष्ठिरसंवादगीतम्

नारीशक्तिः – महाकाव्येषु प्रतिफलिता स्त्रीत्वभावना च आधुनिकपरिप्रेक्षः

KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये शोधप्रवेशपरीक्षायै (RET) आवेदनानि आमन्त्रितानि

KKSU Ramtek : भविष्ये विश्वस्य कस्मात् अपि देशात् CDOE मध्ये प्रवेशः सुलभः भविष्यति -प्रो.हरेराम: त्रिपाठी

KKSU Ramtek : संस्कृतविश्वविद्यालये भारतीयभाषापरिवारमहोत्सवः महता उत्साहेन आचरितः।

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article ओडिशाराज्ये विश्वप्रसिद्धा भगवतः जगन्नाथस्य रथयात्रा आध्यात्मिकोत्साहेन समारब्धा
Next Article राष्ट्रीयस्वयंसेवकसङ्घस्य (आर.एस.एस.) यात्रा सङ्घटित-स्वैच्छिककार्याणां शक्तेः तथा च निःस्वार्थसेवामूल्यानां चिरस्थायिप्रमाणं वर्तते
1 Comment 1 Comment
  • K Jagannathan says:
    July 26, 2026 at 5:38 pm

    Good reading a contemporary loukika vishayah in sanskrit

    Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?