By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: जागरूकः नागरिकः समर्पितः चिकित्सकश्च एव कुरुतः स्वस्थसमाजस्य परिचयम्, चिकित्सक-दिवसे (‘डॉक्टर्स् डे’) आई.एम.ए. (IMA) संस्थया दत्तः सङ्देशः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > जागरूकः नागरिकः समर्पितः चिकित्सकश्च एव कुरुतः स्वस्थसमाजस्य परिचयम्, चिकित्सक-दिवसे (‘डॉक्टर्स् डे’) आई.एम.ए. (IMA) संस्थया दत्तः सङ्देशः
हिमाचलवार्ता

जागरूकः नागरिकः समर्पितः चिकित्सकश्च एव कुरुतः स्वस्थसमाजस्य परिचयम्, चिकित्सक-दिवसे (‘डॉक्टर्स् डे’) आई.एम.ए. (IMA) संस्थया दत्तः सङ्देशः

डॉ मनोज शैल
Last updated: 2026/07/01 at 9:48 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

जागरूकः नागरिकः समर्पितः चिकित्सकश्च एव कुरुतः स्वस्थसमाजस्य परिचयम्, चिकित्सक-दिवसे (‘डॉक्टर्स् डे’) आई.एम.ए. (IMA) संस्थया दत्तः सङ्देशः

हिमसंस्कृतवार्ता: — काङ्गड़ा।

राष्ट्रिय-चिकित्सक-दिवसस्य (नेशनल डॉक्टर्स डे) अवसरे ‘इंडियन मेडिकल एसोसिएशन’ (आई.एम.ए.) धर्मशाला-शाखया समाजं प्रति स्वकीया कटिबद्धता पुनरुक्ता। अनया स्वास्थ्यजागरूकता, निःस्वार्थसेवा, सामाजिक-उत्तरदायित्वैश्च सम्बद्धाः स्वकीयाः विभिन्नाः कार्यक्रमाः प्रमुखतया रेखाङ्किताः। आई.एम.ए. धर्मशालायाः अध्यक्षेण डॉ. अतुलगुप्तेन कथितं यत् वर्तमानसमये चिकित्सकानां भूमिका केवलं रोगाणाम् उपचारे एव सीमिता नास्ति, अपितु जनान् स्वस्थजीवनशैलीं ग्रहीतुं, रोगाणां समये परिचयं कर्तुं, स्वास्थ्यं प्रति जागरूकं विधातुं च वर्तते। तेन उक्तं यत् यदि जनाः स्वास्थ्यसम्बन्धिनीं समीचीनां सूचनां रक्षेयुः समये च चिकित्सकीयपरामर्शं गृह्णीयुः, तर्हि अनेकेभ्यः गम्भीरेभ्यः रोगेभ्यः रक्षितुं शक्यते।

एतस्मादेव उद्देश्यात् आई.एम.ए. संस्था निरन्तरं जनहिताय बहून् कार्यक्रमान् प्रचालयति। वर्ष २०२६ मध्ये आरब्धा ‘मातृ-पितृ सेवा’ ओ.पी.डी. (OPD) अस्मिन् मार्गे एका महती परिकल्पना वर्तते। अस्य कार्यक्रमस्य अन्तर्गतं वरिष्ठनागरिकेभ्यः (वृद्धेभ्यः) प्राथमिकतायाः आधारेण चिकित्सकीयपरामर्शः स्वास्थ्यसेवाश्च उपलब्धा: क्रियन्ते। अनेन साकमेव आई.एम.ए. संस्थायाः सुदृढ-चिकित्सक-तन्त्रस्य (नेटवर्क) माध्यमेन सद्यः एव गृहे एव सामान्यानां स्वास्थ्यसमस्यानां कृते चिकित्सासुविधां प्रदातुं योजना अपि प्रवर्त्यते, येन वृद्धजनेभ्यः अनावश्यकं चिकित्सालयं प्रति गमनागमनस्य क्लेशात् साहाय्यं प्राप्स्यते। आई.एम.ए. भवने धर्मशालायां प्रत्येकस्मिन् रविवासरे आयोज्यमाना ओ.पी.डी. अपि सामान्यजनेभ्यः अतीव लाभप्रदा सिद्धा भवति। अस्याम् विभिन्नाः विशेषज्ञचिकित्सकाः स्वेच्छया स्वकीयाः सेवाः प्रदाय रुग्णानां परीक्षणं, परामर्शं, आवश्यकमुपचारं च कुर्वन्ति। अनेन प्रयासेन अधुना यावत् शतशः रोगिणः लाभान्विताः अभवन्।

आई.एम.ए. संस्था समये-समये नि:शुल्क-स्वास्थ्य-शिविराणि, रक्तदानशिविराणि, जनस्वास्थ्य-जागरूकता-अभियानानि, विभिन्न-राष्ट्रिय-अन्तर्राष्ट्रिय-स्वास्थ्यदिवसेषु कार्यक्रमान्, योगदिवस-आयोजनानि तथा च मधुमेह-उच्चरक्तचाप-बालस्वास्थ्य-जीवनशैलीजन्यरोगाणाम् अन्येषु महत्त्वपूर्णेषु विषयेषु जागरूकताभियानानि अपि आयोजयति। एतेषां कार्यक्रमाणाम् उद्देश्यं जनान् रुग्णतायाः परं न, अपितु पूर्वमेव स्वस्वास्थ्यं प्रति सजगं विधातुं वर्तते। सामाजिकप्रक्रियाभिः साकमेव आई.एम.ए. धर्मशाला चिकित्सकानां निरन्तरप्रशिक्षणाय चिकित्साशिक्षायै च समानं महत्त्वं ददाति। संस्था नियमितरूपेण ‘कंटीन्यूइंग मेडिकल एजुकेशन’ (CME), कार्यशालानां, वैज्ञानिकसङ्गोष्ठीनां च आयोजनं कृत्वा चिकित्सकान् चिकित्साविज्ञानस्य नवीनाभिः सूचनाभिः परिचाययति, येन रोगिभ्यः श्रेष्ठः आधुनिकश्च उपचारः प्राप्तुं शक्ष्यते।

चिकित्सकदिवसस्य अवसरे सर्वेभ्यः चिकित्सकेभ्यः शुभकामनाः प्रदाय डॉ. अतुलगुप्तेन प्रतिपादितं यत् चिकित्सकस्य समाजस्य च सम्बन्धः केवलम् उपचारं यावत् सीमितः नास्ति, अपितु विश्वास-सेवा-मानवतासु आधारितः वर्तते। तेन जनाः प्रार्थिताः यत् ते नियमितं स्वास्थ्यपरीक्षणं कार्येयुः, सन्तुलितम् आहारं स्वस्थजीवनशैलीं च गृह्णीयुः, स्वयं औषधग्रहणात् विरमेयुः तथा च कस्यामपि स्वास्थ्यसमस्यायां सत्यां योग्यात् चिकित्सकात् समये परामर्शं अवश्यमेव गृह्णीयुः। आई.एम.ए. धर्मशाला-शाखया विश्वासः प्रकटितः यत् भविष्ये अपि संस्था जनसेवा-स्वास्थ्यजागरूकता-सामाजिकदायित्त्व-चिकित्साशिक्षणां क्षेत्रेषु स्वकीयान् प्रयासान् भूयः सुदृढान् कृत्वा स्वस्थस्य जागरूकस्य च समाजस्य निर्माणे स्वयोगदानं ददती स्थास्यति।

You Might Also Like

नगरनिकायेषु अधुना सर्वाणि वित्तीय-आदान-प्रदानानि डिजिटल-माध्यमेन भविष्यन्ति

HP WEATHER – लाहौले चम्बायां च त्रिषु स्थानेषु मेघविस्फोटः, मण्ड्यां शैलात् पतितशिलाघातेन महिलायाः मृत्युः

कर्मचारिभ्यः वृत्तिभोगिभ्यश्च साहाय्यम् चिकित्सा-प्रतिपूर्ति-देयकानां राश्यर्पणाय सर्वकारेण २१२ कोटिरूप्यकाणि विमोचितानि – मुख्यमंत्री 

विकसितभारतस्य सङ्कल्पः अधिकं सुदृढः भविष्यति – अनुरागठाकुरः

TET UPDATE – २०१० तमवर्षात् पूर्वं नियुक्तेभ्यः शिक्षकेभ्यः टी.ई.टी. अनिवार्या न, एन.सी.टी.ई. इत्यनेन स्पष्टीकृतम्

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP WEATHER – लाहौले चम्बायां च त्रिषु स्थानेषु मेघविस्फोटः, मण्ड्यां शैलात् पतितशिलाघातेन महिलायाः मृत्युः
Next Article नगरनिकायेषु अधुना सर्वाणि वित्तीय-आदान-प्रदानानि डिजिटल-माध्यमेन भविष्यन्ति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?