By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP WEATHER – लाहौले चम्बायां च त्रिषु स्थानेषु मेघविस्फोटः, मण्ड्यां शैलात् पतितशिलाघातेन महिलायाः मृत्युः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP WEATHER – लाहौले चम्बायां च त्रिषु स्थानेषु मेघविस्फोटः, मण्ड्यां शैलात् पतितशिलाघातेन महिलायाः मृत्युः
हिमाचलवार्ता

HP WEATHER – लाहौले चम्बायां च त्रिषु स्थानेषु मेघविस्फोटः, मण्ड्यां शैलात् पतितशिलाघातेन महिलायाः मृत्युः

डॉ मनोज शैल
Last updated: 2026/07/01 at 9:44 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

HP WEATHER – लाहौले चम्बायां च त्रिषु स्थानेषु मेघविस्फोटः, मण्ड्यां शैलात् पतितशिलाघातेन महिलायाः मृत्युः

 

हिमसंस्कृतवार्ता: — हिमाचलप्रदेशे ऋतुकालीनवृष्ट्या (मानसून-वृष्ट्या) बहुषु मण्डलेषु विनाशस्य चिह्नानि मुक्तानि। बुधवासरे सम्पूर्णप्रदेशे ऋतुकालीनवृष्टेः आगमनेन सहैव लाहौल-स्पीतौ चम्बायां च त्रिषु स्थानेषु मेघविस्फोटस्य घटनाः सम्मुखम् आगताः, यत्रैव मण्ड्यां पर्वतात् पतितस्य पाषाणस्य परिधौ आगत्य एकस्याः महिलायाः मृत्युः संजाता। निरन्तरवृष्ट्या सम्पूर्णप्रदेशे नदी-नालाः उद्वेलिताः सन्ति, जनजीवनं च प्रभावितं जातम्। यद्यपि प्रदेशस्य बहुषु क्षेत्रेषु वृष्टेः अभावात् वातावरणे उष्मा (उमस) प्रवृद्धा। ऊना-क्षेत्रे अधिकतमं तापमानं 32°C अङ्कितम्।

 

लाहौल-क्षेत्रे रात्रौ द्वयोः स्थानयोः मेघविस्फोटः

लाहौल-क्षेत्रे मङ्गलवासरे रात्रौ द्वयोः स्थानयोः मेघविस्फोटः संजातः। पट्टनघात्याः रानिका-पञ्चायतस्य ‘पड़ाक’ ग्रामे मेघविस्फोटजनितेन जलोत्प्लवेन (बाढ़) कृषकाणां सस्यानां भूरि हानिः अभवत्। अपरपक्षे ‘रीवालिंग’ सम्पर्कमार्गः अपि अवरुद्धः जातः। ‘जिस्पा’ स्थाने मेघविस्फोटेन उपनद: पूरः आगतः। मलिनावशेषस्य आगमनेन मनाली-लेह-राष्ट्रियमार्गः अवरुद्धः अभवत्, यत्रैव तांदी-संसारी-मार्गः अपि यातायातार्थं स्थगीकर्तव्यः जातः। अन्यत्र, चम्बायाः साहो-क्षेत्रस्य कीड़ी-ग्रामपञ्चायते मेघविस्फोटेन महती क्षति: जाता। एकत्र यत्र उद्यानेषु सेवफलानां हानिः अभवत्, तत्रैव कीड़ी-बंजल-मार्गे जुंगली-उपनदस्य समीपे 500 मीटर परिमितः मार्गः ध्वस्तः अभवत्। जलप्रवाहे ‘कैंची मोड़’ समीपे निर्मिताः तिस्रः पादपुल्यः अपि प्रवाहाढ्याः अभवन्।

 

चम्बामण्डले अपि विनाशः

प्रचण्डवृष्ट्या पठानकोट-भरमौर-महामार्गः ‘बत्ती दी हट्टी’ तथा ‘लूणा’ समेतः चम्बा-तीसा-मार्गः ‘पङ्गोला’ उपनदस्य समीपे जलस्तरस्य वर्धनेन षड्घण्टाः यावत् अवरुद्धः आसीत्। 30 पञ्चायतानां सम्पर्कः पूर्णरूपेण विच्छिन्नः जातः। सलूणी-क्षेत्रे बहुषु स्थानेषु गृहेषु मलिनावशेष: प्रविष्टः। किलाड़-सेचू-मार्गे मलिनावशेषस्य आगमनेन जे.सी.बी. (JCB) यन्त्रं निमग्नं जातम्। बुधवासरे प्रातः चतुर्वादनात् आरभ्य दशवादनं यावत् मण्डीमण्डले महती वृष्टिः अभवत्। अनेन विपाशा (ब्यास) नद्या साकं मण्डले नद्योपनदा: उद्वेलिताः सन्ति। मण्ड्याः ‘औट’ स्थिते शनिमन्दिरस्य समीपे बुधवासरे प्रातः शिशोः वमनं कारयितुं कार-यानात् बहिः आगता एका महिला पर्वतात् पतितस्य पाषाणस्य ताडनेन मृता। प्रदेश-आपदाप्रबन्धन-प्राधिकरणानुसारं वृष्टेः कारणात् राज्ये 35 मार्गाः यातायातार्थं निरुद्धा: सन्ति, यत्रैव 127 विद्युत्-परिवर्तकाः (ट्रांसफार्मर) अपि स्थगिता: जाताः। बहुषु स्थानेषु विद्युत्-पेयजलापूर्तिः प्रभाविता अभवत्।

ऊना-मण्डले बुधवासरे प्रातः चतुर्वादने वृष्ट्याः क्रमः आरब्धः। अस्मात् कारणात् शाकमण्ड्यां व्यापारः प्रभावितः जातः। बहुषु आपणेषु जलं प्रविष्टं मार्गाश्च जलमग्नाः अभवन्। ऊनायाः बहवः उपनदा: स्वां-नद्याः च जलस्तरः प्रवृद्धः। चिन्तपूर्णीक्षेत्रे चिररात्रौ संजातया प्रचण्डवृष्ट्या ‘भरवाईं’ स्थाने महती क्षति: विहिता। मुबारिकपुर-रानीताल-राष्ट्रियमार्गे भरवाईं-स्थिते कस्यचित् आपणस्य सम्मुखे मार्गस्य बृहद्भागः सहसा धंसितः, यस्मात् कारणात् समीपस्थानां त्रयाणाम् आपणानां उपरि गम्भीरं सङ्कटं मण्डलायते।

 

गानवी-उपनदस्य जलस्तरः भृशं प्रवृद्धः

निरन्तरवृष्टेः कारणात् शिमला-मण्डलस्य रामपुर-उपमण्डले ‘गानवी’ उपनदस्य जलस्तरः अत्यधिकं प्रवृद्धः। अनेन त्रयाणां पञ्चायतानां सम्पर्कः विच्छिन्नः जातः। किन्नौर-मण्डले ‘नाथपा’ बन्धात् निरन्तरं जलं विमुच्यते। कल्पा-रिकाङ्गपिओ क्षेत्रयोः अपराह्णात् परं भूरिवृष्टिः अभवत्। अपरपक्षे, किन्नौरस्य ‘रिस्पा’ उपनदस्य उद्वेलनेन ग्रामं संयोजिकः मार्गः प्रवाहाढ्यः जातः। काँगड़ामण्डले मङ्गलवासररात्रितः बुधवासरप्रातःकाल यावत् वृष्टेः क्रमः प्राचलत्। शाहपुर-जवाली-खैरा समेतेषु अन्येषु क्षेत्रेषु जलं जनानां आपणेषु गृहेषु च प्रविष्टम्। प्रातःकालात् परं वातावरणं स्वच्छम् अभवत्।

हमीरपुरे विपाशा-सेतौ (ब्यास पुल) पर्वतस्य मलिनावशेषपातेन सुजानपुर-संधोल-मार्गः प्रायः पादोनघण्टां यावत् बाधितः आसीत्। सलूणी-उपमण्डलस्य ‘लनौट’ पञ्चायते वृष्ट्याः मध्ये पर्वतात् आगतः मलिनावशेष: कस्यचित् गृहे प्रविष्टः। परिवारेण कथमपि सार्धैकवर्षीया (1.5 वर्षीया) वराका पौत्री अङ्के उत्त्थाप्य धावित्वा प्राणाः रक्षिताः। अन्यत्र, राजधान्यां शिमलायां बुधवासरे प्रातःकालात् अपराह्णं यावत् मन्दं-मन्दं वृष्टिः प्रवृत्ता। सिरमौरमण्डले अपि वृष्ट्या बहुषु क्षेत्रेषु जलभरावस्य स्थितिः जाता। बिलासपुर-सोलन-मण्डलयोः सीमासमीपे ‘क्यारड़’ क्षेत्रे बुधवासरे महता भूस्खलनेन शिमला-मटौर-राष्ट्रियमार्गः-205 (NH-205) दिनभरं पूर्णरूपेण अवरुद्धः अभवत्। अनेन शिमला-बिलासपुर-हमीरपुर-मण्डीनां मध्ये प्रवासं कुर्वन्तः सहस्रशः यात्रिणः महतीं समस्यां सम्मुखीकुर्वन्तः आसन्।

 

ऋतुकालीनवृष्टेः आगमनेनैव सामान्यात् 251% अधिका अभवत् वृष्टिः

हिमाचलप्रदेशे 30 जून् रात्रितः 1 जुलाई सायङ्कालं यावत् प्रदेशे सामान्यात् 251% अधिका वृष्टिः अभवत्। अस्याम् अवधौ 4.1 मिलिमीटर (mm) परिमिता वृष्टिः सामान्या मन्यते, परन्तु वास्तवतः अस्मिन् अन्तराले 14.4 मिलिमीटर (mm) वृष्टिः अङ्किता। बिलासिपुरे सामान्यात् 308%, चम्बायां 544%, हमीरपुरे 305%, काँगड़ायां 572%, कुल्लू-क्षेत्रे 501%, मण्ड्यां 171%, शिमलायां 11%, सोलन-क्षेत्रे 7% तथा च ऊना-मण्डले 3% अधिका वृष्टिः संजाता। किन्नौरे सामान्यात् 100%, लाहौल-स्पीतौ 64% तथा च सिरमौरमण्डले 69% न्यूना वृष्टिः अङ्किता अभवत्।

चतुर्षु मण्डलेषु वृष्टेः नारङ्ग-सतर्कता

चतुर्षु मण्डलेषु—काँगड़ा-मण्डी-शिमला-सिरमौरेषु 2 तथा 3 जुलाई दिनाङ्कयोः महद्वृष्टेः नारङ्ग-सतर्कता प्रसारिता अस्ति। शिष्टेषु मण्डलेषु वृष्टेः पीत-सतर्कता घोषितम्। 4 जुलाई दिनाङ्के प्रदेशे अधिकायाः वृष्टेः सम्भावना न्यूना वर्तते। 5 तथा 6 जुलाई दिनाङ्काभ्यां पुनः प्रदेशे ऑरेंज-येलो सतर्कता घोषिता। 7 जुलाई यावत् प्रदेशे वातावरणं विकृतं स्थास्यति इति पूर्वानुमानं वर्तते।

You Might Also Like

नगरनिकायेषु अधुना सर्वाणि वित्तीय-आदान-प्रदानानि डिजिटल-माध्यमेन भविष्यन्ति

जागरूकः नागरिकः समर्पितः चिकित्सकश्च एव कुरुतः स्वस्थसमाजस्य परिचयम्, चिकित्सक-दिवसे (‘डॉक्टर्स् डे’) आई.एम.ए. (IMA) संस्थया दत्तः सङ्देशः

कर्मचारिभ्यः वृत्तिभोगिभ्यश्च साहाय्यम् चिकित्सा-प्रतिपूर्ति-देयकानां राश्यर्पणाय सर्वकारेण २१२ कोटिरूप्यकाणि विमोचितानि – मुख्यमंत्री 

विकसितभारतस्य सङ्कल्पः अधिकं सुदृढः भविष्यति – अनुरागठाकुरः

TET UPDATE – २०१० तमवर्षात् पूर्वं नियुक्तेभ्यः शिक्षकेभ्यः टी.ई.टी. अनिवार्या न, एन.सी.टी.ई. इत्यनेन स्पष्टीकृतम्

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, HP weather, Meteorological Department:, National News, दिव्य हिमाचल समाचार, मौसम विज्ञान केन्द्र, मौसम विभाग, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल मौसम
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article कर्मचारिभ्यः वृत्तिभोगिभ्यश्च साहाय्यम् चिकित्सा-प्रतिपूर्ति-देयकानां राश्यर्पणाय सर्वकारेण २१२ कोटिरूप्यकाणि विमोचितानि – मुख्यमंत्री 
Next Article जागरूकः नागरिकः समर्पितः चिकित्सकश्च एव कुरुतः स्वस्थसमाजस्य परिचयम्, चिकित्सक-दिवसे (‘डॉक्टर्स् डे’) आई.एम.ए. (IMA) संस्थया दत्तः सङ्देशः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?