‘चिट्टा’ मादकद्रव्य-तस्कराणां ७० लक्षरूप्यकाणां सम्पत्तिः कुण्ठिता (सीज), विलासिता-यानेषु, ट्रक्-याने, कार-याने, सुवर्णे, वित्तकोषसंख्यासु च आरक्षकदलस्य प्रक्रमः
हिमसंस्कृतवार्ता: — शिमला ।
शिमला-आरक्षकदलेन (पुलिस) मादकद्रव्यतस्करी-विरोधि-अभियानस्य अन्तर्गतं तस्कराणां आर्थिकतन्त्रस्य उपरि महान् प्रहारं कृत्वा ‘एन.डी.पी.एस.’ (NDPS) अधिनियमस्य द्वयोः प्रकरणयोः प्रायः ७० लक्षरूप्यकाणां अवैधसम्पत्तिः कुण्ठिता (फ्रीज) कृता। आरक्षकदलस्य कथनं वर्तते यत् अधुना प्रक्रमः केवलं मादकद्रव्यतस्कराणां ग्रहणं (गिरफ्तारी) यावत् सीमितः न स्थास्यति, अपितु तस्करितः अर्जितानाम् अवैधसम्पत्तीनां परिचयं कृत्वा ताः नियमान्तर्गतं अधिग्रहीष्यन्ते। प्रथमं प्रकरणं ११ फरवरी २०२५ तमवर्षस्य अस्ति। रामपुरस्य ‘डिटेक्शन सेल’ इत्यनेन गुप्तसूचनायाः आधारेण किन्नौरनिवासिनः ‘साहिल’ इत्यस्य सम्मुखात् प्रायः ६ ग्रामपरिमितं ‘चिट्टा’ (हेरॉइन) इति मादकद्रव्यं प्राप्तं कृतम् आसीत्। अस्मिन् विषये रामपुर-आरक्षकस्थाने एन.डी.पी.एस. अधिनियमस्य २१ तमायाः धारायाः अन्तर्गतं प्रकरणालेखः कृतः। अन्वेषणकाले आरक्षकदलेन मादकद्रव्यापूर्तेः तन्त्रस्य पूर्वतन-परतन-सम्बन्धानां (बैकवर्ड और फॉरवर्ड लिंक) गहनान्वेषणं विहितम्, यस्यां गोविन्दसिंह-राकेशकुमार-मनमोहनसिंह-दीपक-राकेशादीनां अन्य-आरोपिसदस्यानां संलिप्तता सम्मुखम् आगता। सर्वे अपि एन.डी.पी.एस. अधिनियमस्य २९ तमायाः धारायाः अन्तर्गतं बन्दीकृताः। आरक्षकदलेन प्रकरणस्य आर्थिकान्वेषणकाले त्रयाणाम् आरोपिणाम् प्रायः ३२ लक्षरूप्यकाणां अवैधसम्पत्तिः चिह्निता। एतेषु विलासिता-यानानि (लग्जरी वाहन), ४४.१ ग्रामपरिमितं सुवर्णं, अन्याः सम्पत्तयश्च सम्भृताः सन्ति।
एताः सर्वाः नियमानुसारं कुण्ठिताः (फ्रीज) कृताः। द्वितीयं प्रकरणं ‘चेतन चौहान’ इति आरोपिणा सह सम्बद्धं वर्तते, यस्य विरोधे पूर्वमेव एन.डी.पी.एस. अधिनियमस्य द्वौ प्रकरणालेखौ पञ्जीकृतौ आस्ताम्। तस्य विरोधे निरोधात्मकप्रक्रमस्य प्रस्तावः सर्वकाराय प्रेषितः आसीत्। सर्वकारस्य अनुमत्याः परं सः २५ अप्रैल् २०२६ तमे दिनाङ्के चण्डीगढ़तः गृहीतः (बन्दीकृतः)। वर्तमानकाले सः कैथू-स्थिते मण्डल-उपकारागारे (जेल) बद्धः अस्ति। चेतनचौहानस्य आर्थिकान्वेषणकाले प्रायः ३८ लक्षरूप्यकाणाम् अवैधसम्पत्तेः प्रकटनं अभवत्। अस्याम् एकं ट्रकयानं, एकं कार-यानम्, ७४ ग्रामपरिमितं सुवर्णं, वित्तकोषसंख्या:, अन्याः वित्तीयसम्पत्तयश्च सम्मिलिताः सन्ति। वर्ष २०२६ इत्यस्य प्रथमेषु षट्सु मासेषु आर्थिकान्वेषणस्य आधारेण चतुर्षु प्रकरणेषु षण्णाम् आरोपिणाम् आहत्य १.८३ कोटिरूप्यकाणाम् अवैधसम्पत्तिः अधिग्रहीता अस्ति। शिमलायाः वरिष्ठ-आरक्षक-अधीक्षकः (SSP) गौरवसिंहः अवदत् यत् भविष्ये अपि मादकद्रव्यतस्कराणां विरोधे आर्थिकान्वेषणस्य अवैधसम्पत्तेः जप्तीकरणस्य च प्रक्रमः पूर्णकठोरतया सह निरन्तरं प्रचलति।
