वाणिज्यमन्त्री पीयूषगोयलः अवदत् – भारत-ब्रिटेन-मुक्तव्यापारसन्धिः (एफटीए) सर्वाधिक-व्यापक-सन्धिष्वन्यतमा
वाणिज्य-उद्योग-मन्त्री पीयूषगोयलः उक्तवान् यत् भारत-ब्रिटेन-देशयोः मध्ये अभवत् मुक्तव्यापारसन्धिः (फ्री ट्रेड एग्रीमेन्ट), इदानीं यावत् भारतेन कृतासु सन्धिषु सर्वाधिकं व्यापकं वर्तते।लन्दन-नगरे ‘इण्डिया ग्लोबल फोरम’ इत्यस्य ‘यूके-इण्डिया वीक’ कार्यक्रमे श्रीगोयलः अवदत् यत् अनया सन्ध्या द्वाभ्यां देशाभ्यां प्राप्यमाणानाम् आर्थिकलाभानां सम्भावनाः अतीव अधिकाः सन्ति। श्रीगोयलः त्रिदिवसीय-ब्रिटेन-यात्रायाम् अस्ति। अस्मिन् अवसरे सः १५ जुलाईतः प्रवृत्तस्य भारत-ब्रिटेन-व्यापक-आर्थिक-व्यापार-सन्धेः सज्जतानां समीक्षां करोति। सः द्वयोः देशयोः उद्योगजगत् अस्य अवसरस्य लाभं ग्रहीतुम् तथा व्यापारं नूतनोन्नतौ नेतुं महत्त्वाकांक्षि-लक्ष्यं निर्धारयितुम् आह्वानं कृतवान्। सः अवदत् यत् अनया सन्ध्या द्वयोः देशयोः मध्ये प्रायः ४८ अरब पाउण्ड् (४८ बिलियन पाउण्ड्) परिमितस्य वार्षिकव्यापारस्य अधिकं प्रोत्साहनं मिलिष्यति।केन्द्रीयमन्त्री अकथयत् यत् भारतं ब्रिटेनदेशः च रक्षा-महत्त्वपूर्णखनिज-सदृशेषु क्षेत्रेषु अपि सहयोगं वर्धयतः। श्रीगोयलः अवदत् यत् द्वौ देशौ आतङ्कवादस्य प्रतिकाराय तथा वैश्विकशान्तिं, स्थायित्वं, समृद्धिं च वर्धयितुं प्रतिबद्धौ स्तः।
वाणिज्यमन्त्री पीयूषगोयलः अवदत् – भारत-ब्रिटेन-मुक्तव्यापारसन्धिः (एफटीए) सर्वाधिक-व्यापक-सन्धिष्वन्यतमा
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
