जनगणना 2027- १५ जूनपर्यन्तं स्वयं पूरयन्तु स्वविवरणम्; मुख्यमन्त्रिणा प्रदेशवासिभ्यः सहभागितां निश्चितं कर्तुं कथितम्
हिमसंस्कृतवार्ता: – शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खूः गतदिने जनगणना-२०२७ इत्यस्याः अन्तर्गतं प्रचलति स्वगणना-अभियाने (सेल्फ एन्यूमरेशन) भागं गृहीतवान्, अन्तर्जाल-जालाधारस्य (ऑनलाइन पोर्टल) se.census.gov.in माध्यमेन च जनगणनासम्बद्धां स्वकीयां सूचनां पञ्जीकृतवान्। अस्मिन् अवसरे हिमाचलप्रदेशस्य जनगणना-सञ्चालन-निदेशिका दीपशिखाशर्मा विभागस्य वरिष्ठाः अधिकारिणश्च मुख्यमन्त्रिणं अङ्कीय-जनगणनायाः (डिजिटल जनगणना) प्रक्रियायाः, अस्याः प्रमुखाणां वैशिष्ट्यानां तथा च नागरिकेभ्यः उपलभ्यमानसुविधानां विस्तीर्णां सूचनाम् दत्तवन्तः।
मुख्यमन्त्री प्रदेशवासिभ्यः अस्मिन् महति राष्ट्रिय-अभियाने सक्रियरूपेण भागं ग्रहीतुं १५ जून २०२६ पर्यन्तं स्वकीयां स्वगणनां पूर्णं कर्तुं च संप्रार्थितवान्। तेन प्रतिपादितं यत् जनगणना लोकतान्त्रिकशासनव्यवस्थायाः विकासस्य च आधारशिला वर्तते, या जनसङ्ख्यायाः, परिवाराणां स्थितेः, आवासस्य, संसाधनानां तथा च सार्वजनिकसेवाप्राप्तेः सम्बद्धाः महत्त्वपूर्णाः सूचनाः उपकल्पयति। एतेषाम् एव अङ्कनानाम् आधारेण विकासयोजनाः निर्मीयन्ते तथा च जनकल्याणकारीनीतीनां कार्यक्रमाणां च निर्माणं क्रियते।मुख्यमन्त्रिणा कथितं यत् हिमाचलप्रदेशे जनगणना-२०२७ द्वयोः चरणयोः आयोजयिष्यते। प्रथमः चरणः १६ जून तः १५ जुलाई २०२६ पर्यन्तं सञ्चालयिष्यते, यश्च ‘गृहसूचीकरणं तथा आवासजनगणना’ इत्यस्य उपरि आधारिता भविष्यति। द्वितीये चरणे जनसङ्ख्यायाः गणना करिष्यते। सः अवदत् यत् अस्मिन् वारे जनगणना पूर्णतः अङ्कीय माध्यमेन (डिजिटल माध्यम) भविष्यति। गणनाकर्तारः (एन्यूमरेटर्स) पर्यवेक्षकाश्च (सुपरवाइजर्स) चलदूरभाष-यन्त्राणां (मोबाइल) माध्यमेन गृहाणां परिवाराणां च सम्बद्धाः सूचनाः सङ्ग्रहीष्यन्ति।मुख्यमन्त्रिणा उक्तं यत् प्रदेशस्य दुर्गमेषु हिमपातप्रभावितेषु क्षेत्रेषु जनसङ्ख्यागणना ११ तः ३० सितम्बर २०२६ पर्यन्तं भविष्यति, यदा तु अन्येषु क्षेत्रेषु एतत् कार्यं ९ तः २८ फरवरी २०२७ तक सम्पन्नं भविष्यति। सः प्रदेशवासिभ्यः अस्य राष्ट्रियमहत्त्वस्य अभियानस्य साफल्याय गणनाकर्तृभ्यः, पर्यवेक्षकेभ्यः अन्येभ्यः च जनगणाधिकारिभ्यः सत्यां पूर्णं च सूचनां प्रदाय सहयोगाय आग्रहं कृतवान्।
जनगणना 2027- १५ जूनपर्यन्तं स्वयं पूरयन्तु स्वविवरणम्; मुख्यमन्त्रिणा प्रदेशवासिभ्यः सहभागितां निश्चितं कर्तुं कथितम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
