By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: निर्वाचनम् 2026: त्रिषु राज्येषु मतदानस्य कीर्तिमानम्, असमस्य इतिहासे प्रथमवारं 85.38 प्रतिशतं मतदानम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > निर्वाचनम् 2026: त्रिषु राज्येषु मतदानस्य कीर्तिमानम्, असमस्य इतिहासे प्रथमवारं 85.38 प्रतिशतं मतदानम्
राजनैतिकवार्ताराष्ट्रीयवार्ताः

निर्वाचनम् 2026: त्रिषु राज्येषु मतदानस्य कीर्तिमानम्, असमस्य इतिहासे प्रथमवारं 85.38 प्रतिशतं मतदानम्

डॉ.अमनदीप शर्मा
Last updated: 2026/04/10 at 6:47 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

निर्वाचनम् 2026: त्रिषु राज्येषु मतदानस्य कीर्तिमानम्, असमस्य इतिहासे प्रथमवारं 85.38 प्रतिशतं मतदानम्
देशस्य द्वयोः राज्ययोः असम-केरलयोः तथा च केन्द्रशासितप्रदेशे पुड्डुचेर्यां गुरुवासरे मतदानस्य सर्वे कीर्तिमानाः भग्नाः अभवन्। निर्वाचन-आयोगानुसारं रात्रौ अष्टवादनपर्यन्तं असमराज्ये 85.38 प्रतिशतं मतदानम् अभवत्। असमस्य इतिहासे एषः सर्वाधिकः मतदानस्य अङ्कः अस्ति। एवमेव केरले गतेषु 49 वर्षेषु द्वितीयं सर्वाधिकं मतदानम् अभवत्, अत्र 78.01 प्रतिशतं जनाः मतदानं कृतवन्तः। 1977 तमे वर्षे केरले सर्वाधिकं 79.2 प्रतिशतं मतदानम् अभवत्। अपरपक्षे पुड्डुचेर्यां 89.81 प्रतिशतं मतदानं जातम्।
मतदानकाले असमराज्ये निर्वाचनसम्बन्धिन्यां हिंसायां प्रायः 30 जनाः क्षताः अभवन्, सप्त जनाः च निगृहीताः (आरक्षिताः)। श्रीभूमिमण्डलस्य ‘पथारकण्डी’ स्थाने काङ्ग्रेस-भाजपा समर्थकानां मध्ये सङ्घर्षे प्रायः 25 जनाः क्षताः, द्वयोः अवस्था गभीरा अस्ति। पुड्डुचेर्याः ‘मन्नादिपेट’ क्षेत्रे मतदानकेन्द्रे काङ्ग्रेस-भाजपा समर्थकानां मध्ये कलहः अभवत्। आरक्षकैः समूहे दण्डप्रहारः (लाठीचार्ज) कृतः।
पुड्डुचेर्याः मुख्यमन्त्री रंगास्वामी मतदानार्थं द्विचकियावाहनेन मतदानकेन्द्रं प्राप्तवान्। केरले पूर्वप्रतिरक्षामन्त्री काङ्ग्रेसनेता च ए.के. एण्टनी महोदयः तिरुवनन्तपुरमे मतदानं कृतवान्। असमस्य मुख्यमन्त्री हिमन्ता बिस्व सरमा गुवाहाटी-नगरे मातुः कामाख्यायाः मन्दिरे पूजनं कृतवान्। ततः परं पत्न्या सह ‘जालुकबाड़ी’ क्षेत्रे मतदानं कृतवान्। एतेषां त्रयाणां राज्यानां निर्वाचनपरिणामाः मई-मासस्य चतुर्थे दिनाङ्के आगमिष्यन्ति।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

विपक्ष-नेतुः जयराम-ठाकुरस्य गर्जनम् — हिमकेयर-योजनायाः अन्वेषणं कलङ्कयितुं केवलं नाटकम्; २०२७ तमे वर्षे भाजपा-दलस्य भविष्यति सर्वकारः

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article परमाणु-भीति-सम्मुखं न नंस्यति भारतम्, CDS जनरल-अनिल-चौहान-महोदयस्य पाकिस्तानाय संचेतना
Next Article उत्तरप्रदेशस्य ‘SIR’ अन्तिम-सूच्यां 2.04 कोटि-नामानि निरस्तानि,
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?