परमाणु-भीति-सम्मुखं न नंस्यति भारतम्, CDS जनरल-अनिल-चौहान-महोदयस्य पाकिस्तानाय संचेतना
बेङ्गलूरु। ‘चीफ ऑफ डिफेंस स्टाफ’ (CDS) जनरल अनिल चौहानः गुरुवासरे उक्तवान् यत् देशः परमाणु-भीति-सम्मुखं (Nuclear Blackmail) न अवनमिष्यति। तेन स्पष्टीकृतं यत् भारतं परमाणु-छायायाः मध्ये अपि पारम्परिक-सैन्य-अभियानं निरन्तरं कर्तुं पूर्णतः सज्जम् अस्ति। भारतस्य दृष्टिकोणे एतत् ‘नूतन-सामान्यम्’ (New Normal) इति कथयन् जनरल-चौहानः अवदत् यत् देशस्य सङ्कल्पः उच्चतमस्तरे स्पष्टरूपेण प्रकटितः अस्ति।
सः ‘ऑपरेशन सिन्दूर’ इत्यस्य अनन्तरं प्रधानमन्त्रिणः नरेन्द्रमोदिनः तां टिप्पणीं स्मृतवान् यत् भारतं परमाणु-सङ्कटेभ्यः न भेष्यति। तेन उक्तम्, “अस्माभिः आक्रमणस्य अनन्तरस्य वातावरणे अपि अभियानं चालयितुं सज्जैः भवितव्यम्। पारम्परिक-परमाणु-क्षेत्रयोः मध्ये सम्बन्धः इदानीं दृढतया स्थापितः अस्ति।” जनरल-चौहानः अस्मिन् विषये बलं दत्तवान् यत् परमाणु-शस्त्राणि युद्धं कर्तुं न अपितु निवारणस्य (Deterrence) साधनानि सन्ति। सः अवदत्, “निवारणम् एकं मानसिक-क्रीडा (Mind game) अस्ति। परमाणु-शस्त्राणि स्वयमेव किमपि क्षेत्रं न सन्ति, अपितु एतानि मानसिक-क्रीडायाः भागः सन्ति, यानि निर्णयान् व्यवहारं च प्रभावितं कुर्वन्ति।” सः पारम्परिक-सैन्य-योजनासु एतेषां महत्वपूर्णं प्रभावम् अपि अङ्गीकृतवान्।
जनरल-चौहानः उक्तवान् यत् भारतं पारम्परिक-सीमाभ्यः परं जायमानानां सङ्घर्षाणाम् अपि कृते आत्मानं सज्जं करोति। युद्धस्य परिवर्तनशीलां प्रकृतिं चर्चयन् सः अवदत् यत् सैन्य-नागरिक-भूमिकानां मध्ये अन्तरं वेगेन न्यूनं भवति। अन्तरिक्ष-साइबर-कृत्रिमबुद्धि (AI) तथा सूचनायुद्धसदृशेषु क्षेत्रेषु भविष्यस्य सङ्घर्षाणां कृते एका ‘हाइब्रिड-संरचना’ आवश्यकी भविष्यति, या सशस्त्रबलैः सह नागरिक-विशेषज्ञतायाः एकीकरणं कुर्यात्।
सीडीएस-महोदयेन अन्ते उक्तं यत् यथा यथा युद्धं थल-जल-नभ-क्षेत्रेभ्यः अग्रे गत्वा तन्त्रज्ञानस्य मानवीय-बोधस्य च क्षेत्रे विस्तारं करोति, भारतस्य सज्जता पारम्परिक-शक्तिं नागरिक-एकीकरणेन सह योजयितुं क्षमतायां निर्भरा भविष्यति।
परमाणु-भीति-सम्मुखं न नंस्यति भारतम्, CDS जनरल-अनिल-चौहान-महोदयस्य पाकिस्तानाय संचेतना
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
