नासा-संस्थया आर्टेमिस-द्वितीय-अभियानेन चन्द्रस्य दुर्लभा प्रतिकृतिः प्रदर्शिता; नूतन-अन्तरिक्ष-कीर्तिमानस्य निर्माणाय सज्जता
अमेरिकायाः अन्तरिक्ष-संस्था ‘नासा’ आर्टेमिस-द्वितीय-अभियानस्य दलद्वारा चन्द्र-परिक्रमा-समये गृहीतं चन्द्रस्य एकं चित्रं प्रसारितवती। अस्याम् आकृत्यां चन्द्रस्य दक्षिण-भागे स्थितः सम्पूर्णः ‘ओरिएंटल-बेसिन’ दृश्यते, यः पूर्वं कदापि न दृष्टः। ओरियन-अन्तरिक्षयाने अमेरिकायाः त्रयः, कनाडादेशस्य च एकः नागरिकः वर्तन्ते। श्वः ओरियन-यानं स्वलक्ष्यं प्राप्स्यति इति आशा अस्ति। आर्टेमिस-द्वितीय-अभियानस्य उद्देश्यं चन्द्रस्य दूरस्थ-भागस्य चित्राङ्कनं वर्तते। पृथिव्याः लक्षचतुष्टयात् (४,००,००० किमी) अधिकं दूरं गत्वा इदं यानं मानव-अन्तरिक्ष-यात्रायाः कीर्तिमानं भङ्क्षयति। तदनन्तरं चन्द्रस्य परिक्रमा कृत्वा अवतरणं विना एव पुनः आगमिष्यति। प्रायः दश-दिवसीयम् इदं मिशनं मासस्य अस्य १० दिनाङ्के पूर्णं भविष्यति। नासा-संस्थायाः लक्ष्यं २०२८ वर्षं यावत् चन्द्रस्य दक्षिण-ध्रुवे अन्तरिक्ष-यात्रिणां प्रेषणम् अस्ति।
नासा-संस्थया आर्टेमिस-द्वितीय-अभियानेन चन्द्रस्य दुर्लभा प्रतिकृतिः प्रदर्शिता
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
