२०३१ पर्यन्तं एक-अर्बुदं (१०० कोटिः) ५जी उपभोक्तॄणां लक्ष्यम्: राज्यसञ्चारमन्त्री डॉ. पेम्मासानी चन्द्रशेखरः
सञ्चारराज्यमन्त्री डॉ. पेम्मासानी चन्द्रशेखरः अवदत् यत् भारतस्य दूरसंचारक्षेत्रं ५जी तथा आगामि-६जी प्रौद्योगिक्यां वैश्विकनेतृत्वकर्तृरूपेण उज्जीवति। नवदिल्ल्यां आयोजिते ‘ईटी टेलीकॉम ५जी’ शिखरसम्मेलने सम्बोधनं कुर्वन् सः अकथयत् यत् देशः अस्मिन् क्षेत्रे उल्लेखनीयां प्रगतिं कृतवान् अस्ति।
सः अवदत् यत् भारतं २०३१ तमवर्षपर्यन्तं एक-अर्बुदं (शतकोटिः) ५जी उपभोक्तॄणां लक्ष्यं प्राप्स्यति। डॉ. पेम्मासानी महोदयः देशस्य नागरिकेभ्यः अभूतपूर्वावसरान् प्रदातुं आगामी-सन्ततेः परिवर्तनात्मकप्रभावे बलं दत्तवान्।श्री पेम्मासानी इत्यनेन उक्तं यत् सम्प्रति प्रायः ३५ सहस्रं सुदूरग्रामाः ४जी आधारभूतसंरचनया सह सम्बद्ध्यन्ते। सः अपि अवदत् यत् ग्रामीण-दूरसञ्चार-आधारभूतसंरचनायाः सुदृढीकरणे बीएसएनएल (BSNL) इत्यस्य महत्त्वपूर्णा भूमिका अस्ति।
२०३१ पर्यन्तं एक-अर्बुदं (१०० कोटिः) ५जी उपभोक्तॄणां लक्ष्यम्: राज्यसञ्चारमन्त्री डॉ. पेम्मासानी चन्द्रशेखरः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
