इन्दिरागान्धी-राष्ट्रिय-कलाकेन्द्रस्य ३९-तमः स्थापनादिवसः; त्रिदिवसीय-सांस्कृतिक-महोत्सवस्य आरम्भः
स्थापनादिवसस्य आयोजनम् -:
इन्दिरागान्धी-राष्ट्रिय-कलाकेन्द्रम् (IGNCA) गतदिनात् स्वस्य ३९-तमं (ऊनचत्वारिंशत्तमं) स्थापनादिवसं मानयति। अस्मिन् त्रिदिवसीय-महोत्सवे शास्त्रीयनृत्य-लोककला-पारम्परिकप्रथानां विशेषप्रदर्शनीनां च माध्यमेन भारतस्य सांस्कृतिक-विरासतयाः एकं जीवन्तं भव्यं च दृश्यं प्रस्तोष्यते।
सांस्कृतिक-प्रस्तुतयः -:
अद्य प्रख्यातया शास्त्रीयनृत्याङ्गनया, सांस्कृतिकविदुष्या, पद्मविभूषण-विभूषितया डॉ. सोनल मानसिंह महोदयेन ‘नाट्यकथा – देवी’ प्रस्तुता। अद्य प्रख्याता भरतनाट्यम्-कलाकाराः, सांस्कृतिकचिन्तिकाः, पद्मविभूषण-विभूषिता डॉ. पद्मा सुब्रह्मण्यम् महोदया भगवद्गीतायाः उपरि आधारितां एकां विशेष-नृत्यनाटिकां प्रस्तोष्यति।
महोत्सवस्य समापनम् -:
महोत्सवस्य अन्तिमदिवसः भारतस्य विविधाभ्यः लोकपरम्पराभ्यः युद्धकलाभ्यः (Martial Arts) च समर्पितः भविष्यति।
इन्दिरागान्धी-राष्ट्रिय-कलाकेन्द्रस्य ३९-तमः स्थापनादिवसः; त्रिदिवसीय-सांस्कृतिक-महोत्सवस्य आरम्भः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
