पण्डित-दीनदयाल-उपाध्यायस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पितवन्तः उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र मोदी, गृहमंत्री अमित शाहः च
उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र मोदी, गृहमंत्री अमित शाहः च पण्डित-दीनदयाल-उपाध्यायस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पितवन्तः। सामाजिक-माध्यमस्य (Social Media) सन्देशे उपराष्ट्रपतिः पण्डित-दीनदयाल-उपाध्यायं ‘दूरदर्शी-विचारकः’ ‘राष्ट्र-निर्माता’ च इति वर्णितवान्, येन स्वजीवनं समाजसेवायै समर्पितम्। श्री राधाकृष्णन् उक्तवान् यत् पण्डित-दीनदयाल-उपाध्यायस्य ‘एकात्म-मानववादस्य’ (समग्र मानवतावादस्य) सिद्धान्तः अद्यापि विश्वस्य कृते प्रासंगिकः अस्ति। सः अपि च अवदत् यत् अत्यन्त-वञ्चितानां करुणया सेवाकरणस्य तथा नैतिक-जनजीवनस्य पण्डित-दीनदयालस्य सन्देशः भारतं ‘विकसित-भारतं’ प्रति निरन्तरं प्रेरयिष्यति। अन्यस्मिन् एकस्मिन् सन्देशे प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् पण्डित-दीनदयालस्य मूल्याधारिताः सिद्धान्ताः विचाराः च देशस्य प्रत्येक-पीढ्यै मार्गदर्शकाः भविष्यन्ति। गृहमंत्री अमित शाहः उक्तवान् यत् पण्डित-दीनदयाल-उपाध्यायः आगामि-पीढिनां कृते राष्ट्र-निर्माणस्य शाश्वत-प्रेरणास्रोतः स्थास्यति।
पण्डित-दीनदयाल-उपाध्यायस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पितवान् उपराष्ट्रपतिः सी. पी. राधाकृष्णन्,
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
