भारतं तेभ्यः देशेभ्यः एव अपरिष्कृततैलस्य आयातम् अनुवर्तिष्यते, यत्र एतद् न्यूनमूल्ये उत्तम-गुणवत्तायुक्तं च उपलभ्यते-सर्वकारः
सर्वकारेण उक्तं यत् भारतं तेभ्यः देशेभ्यः एव अपरिष्कृततैलस्य आयातम् अनुवर्तिष्यते, यत्र एतद् न्यूनमूल्ये उत्तम-गुणवत्तायुक्तं च उपलभ्यते। भारतीय-तैल-संस्थाः भू-राजनैतिक-स्थितिं प्रतिबन्ध-रहितान् स्रोतः च ध्याने निधाय तैलस्य क्रयणं करिष्यन्ति। विदेश-मन्त्रालयस्य वाणिज्य-मन्त्रालयस्य च शीर्षपदाधिकारिणः ह्यः कांग्रेस-नेतुः शशि-थरूरस्य अध्यक्षतायां संसदीय-विदेश-विषयाणां स्थायि-समित्यै एतां सूचनां दत्तवन्तः। श्री थरूरः पत्रकारान् उक्तवान् यत् उपवेशने त्रिंशत्-सदस्येषु अष्टाविंशतिः (२८) सदस्याः उपस्थिताः आसन्, एषा गोष्ठी च अतीव प्रभावशालिनी अभवत्। श्री थरूरः अवदत् यत् उपवेशनस्य अधिकांशः समयः भारत-अमेरिका-व्यापार-सन्धौ (Trade Agreement) तथा भारत-यूरोपीय-सङ्घ-मुक्त-व्यापार-सन्धौ (Free Trade Agreement) केन्द्रितः आसीत्। अस्मिन् रूसी-तैलं तथा कृषि-उत्पादान् च विहाय सर्वेषु विषयेषु चर्चा अभवत्। सः अवदत् यत् अधिकारिणः प्रत्येकं प्रश्नस्य विस्तृतम् उत्तरं दत्तवन्तः। अधिकारिणः समितये सूचितवन्तः यत् भारतम् अमेरिकया सह अन्तरिम-सन्धिं अन्तिमरूपं दातुं कार्यं करिष्यति, जनाः च अस्य विस्तृत-विवरणाय प्रतीक्षाम् कुर्युः। श्री थरूरः उक्तवान् यत् भारतं तेषु देशेषु अन्तर्भवति ये न्यनतमं दरं (Lowest Rate) प्राप्तवन्तः।
भारतं तेभ्यः देशेभ्यः एव अपरिष्कृततैलस्य आयातम् अनुवर्तिष्यते, यत्र एतद् न्यूनमूल्ये उत्तम-गुणवत्तायुक्तं च उपलभ्यते-सर्वकारः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
