यूनिसेफ (UNICEF) इत्यनेन अधिसूचितं यत् एआई (AI) द्वारा निर्मितं बालकानां अश्लीलचित्रणं ‘बाल-यौन-शोषणम्’ अस्ति
संयुक्तराष्ट्रसङ्घस्य संस्था यूनिसेफ (UNICEF) अवदत् यत् कृत्रिममेधया (Artificial Intelligence – AI) निर्मितं बालकानां अश्लीलचित्रणं बाल-यौन-शोषणस्य एकः प्रकारः अस्ति, अतः एतत् अपराधत्वेन मन्तव्यम्। यूनिसेफ-संस्थया एआई-उपकरणैः आपत्तिजनकसामग्र्याः निर्माणस्य वर्धमानप्रवृत्तौ सचेतना दत्ता।
संस्थया उक्तं यत् एआई-माध्यमेन सज्जिता एतादृशी सामग्री विश्वे चिन्तायाः विषयः अस्ति। एतादृशाः अपि विषयाः आगताः यत्र बालकानां वास्तविकचित्रेषु ‘डीपफेक’ (Deepfake) तन्त्रज्ञानस्य प्रयोगं कृत्वा तेषां विकृत-अश्लील-रुपं प्रदर्श्यते। यूनिसेफ इत्यस्य कथनं अस्ति यत् अस्य तन्त्रज्ञानस्य साहाय्येन बालकानां नग्नचित्राणि प्रदर्श्यन्ते। संयुक्तराष्ट्रसंस्थया विश्वस्य सर्वकारेभ्यः अनुरोधः कृतः यत् ते स्वाधिनियमेषु ‘बाल-यौन-शोषणस्य’ परिभाषायाः विस्तारं कुर्वन्तु। अस्मिन् एआई-निर्मितसामग्र्याः निर्माणं, क्रयणं, वितरणं च अपराधिकप्रक्रिया इति घोषणीया। यूनिसेफ-संस्थया एआई-विकासक-संस्थाः अपि उक्ताः यत् ताः एतादृशसामग्र्याः प्रसारं रोद्धुं कठोरसुरक्षामापदण्डान् स्वीकुर्वन्तु।
यूनिसेफ (UNICEF) इत्यनेन अधिसूचितं यत् एआई (AI) द्वारा निर्मितं बालकानां अश्लीलचित्रणं ‘बाल-यौन-शोषणम्’ अस्ति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
