राष्ट्रपतिपदासीना द्रौपदी मुर्मुः संसदः संयुक्तसम्मेलनम् अभिसंबोधितवती ।
हिमसंस्कृतवार्ता: – राष्ट्रपतिपदासीना द्रौपदीमुर्मुः अकथयत् यत् सर्वकारः यथार्थतया सामाजिक-न्यायाय पूर्णतया प्रतिबद्धः अस्ति, फलतः गतदशके पञ्चविंशति-कोटिजनाः निर्धनरेखाम् अतिक्रमितवन्तः। आयव्यय-सङ्कल्पन-सत्रस्य प्रथमदिने संसदः उभयसदनयोः संयुक्तसम्मेलनम् अभिसंबोधयन्ती राष्ट्रपतिः मुर्मुः अवदत् यत् सर्वकारस्य तृतीये कार्यकाले निर्धनानां सशक्तीकरणस्य अभियानं महत्तरगत्या प्रावर्ततेति। राष्ट्रपतिः मुर्मुः अवदत् यत्, चतुर्दशोत्तरद्विसहस्र-तमवर्षस्य आरम्भे सामाजिकसुरक्षायाः योजनाः केवलं पञ्चविंशति-कोटिजनान् एव प्राप्तुम् अशक्नोत्। सा अवोचत् यत्, सर्वकारस्य निरन्तरप्रयासेण अद्य प्रायः पञ्चनवति-कोटिषु भारतीयेषु सामाजिकसुरक्षाव्यवस्था अस्ति। राष्ट्रपतिः अवदत् यत्, “सबका साथ, सबका विकास” इति परिकल्पना देशस्य सर्वनागरिकाणां जीवनं सकारात्मकरूपेण परिवर्तयति । आपरेशन् सिन्दूर इत्यभियानस्य समये भारतीय-रक्षासेनानां शौर्यस्य पराक्रमस्य च प्रशंसां कुर्वन्ती सा उक्तवती यत्, देशः स्वसम्पदायाः उपयोगेन आततायिनां आधारशिबिराणि नाशयत्। सा अवोचत् यत् सर्वकारेण दृढः सन्देशः प्रेषितोऽस्ति यत् भारतस्य उपरि कस्यापि आततायिनः आक्रमणस्य दृढः निर्णायकश्च प्रतिकारः भविष्यतीति। सा अवोचत् यत्, आपरेशन् सिन्दूर इत्यस्य अनन्तरं, मेड्-इन्-इण्डिया इत्यस्योपरि रक्षा-मञ्चेषु विश्वासः प्रबलः अभवत् । राष्ट्रपतिः अवदत् यत् सर्वकारस्य नीतिम् अनुसृत्य सुरक्षासैनिकाः अपि माओवादी-भयोत्पादनस्य विरुद्धं निर्णायकरूपेण कार्यम् अकुर्वन्। सा अवोचत् यत्, वर्षेभ्यः देशस्य सपादशताधिकेषु मण्डलेषु असुरक्षायाः, भयस्य, अविश्वासस्य च वातावरणम् आसीत्। सा अवोचत् यत् ग्राम्यक्षेत्रेषु वृत्यवसराणां विकासस्य च कृते विकसितभारत जी राम जी इति नामिका योजना अधिनियमितास्ति । राष्ट्रपतिः मुर्मुः अवदत् यत् इयं योजना ग्रामीणविकासाय नूतनां गतिं ददाति, कृषकाणां, पशुपालकानां, मत्स्यपालकानां च कृते नूतनाः सुविधाः च कल्पयति । सा अवदत् यत्, गत दशैकादश वर्षेषु, भारतं प्रत्येकस्मिन् क्षेत्रे स्वस्य आधारं सुदृढम् अकरोत् तथा च वर्षोऽयं विकसित-भारतं प्रति यात्रायाः प्रमुखः आधारः अस्ति।
राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः संसदः उभयोः सदनयोः संयुक्तसभायाम् अभिभाषणम् अद्यतनीयस्य भारतस्य उल्लेखनीयविकासयात्रां प्रतिबिम्बयति- प्रधानमन्त्री ।
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः संसदः उभयोः सदनयोः संयुक्तसभायाम् अभिभाषणम् अद्यतनीयस्य भारतस्य उल्लेखनीयविकासयात्रां प्रतिबिम्बयति । प्रधानमन्त्री अवदत् यत्, सम्बोधनं विकसितभारतस्य निर्माणस्य महत्त्वे केन्द्रितम् आसीत्। सम्बोधनमिदं सुदृढस्य आत्मनिर्भरस्य च राष्ट्रस्य निर्माणेन सह देशस्य संयुक्ताकांक्षामपि प्रतिबिम्बयति। तेनोदीरितं यत् कृषकाणां, यूनां, निर्धनानां, वञ्चितानां च कृते सतत प्रयासाणां प्रकाशनेन सह अस्मिन् भाषणे विविधाः विषयाः अपि निहिताः आसन् ।
