काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः
“मुख्यमंत्री स्वस्य कार्यै: कियत् सन्तुष्टः इत्यपि संशयः अस्ति।”
हिमसंस्कृतवार्ता:- ऊना।
हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्री विपक्षनेता च जयरामठाकुरः रविवासरे ऊनामण्डलस्य प्रवासकाले राज्यस्य काङ्ग्रेससर्वकारं लक्ष्यं कृतवान्। सः अवदत् यत् सत्तां प्राप्ते: पूर्वं काङ्ग्रेसपक्षेण व्यवस्थापरिवर्तनस्य, सुखस्य च सर्वकारस्य घोषा: उत्थापिताः, परन्तु वर्षत्रयानन्तरं राज्यस्य चित्रं सर्वथा निराशाजनकं दृश्यते।
अत्र पत्रकारैः सह वदन् जयरामठाकुरः अवदत् यत् एतेषु वर्षत्रयेषु राज्ये यत् प्रशासनिकं अव्यवस्था अराजकता च प्रसृतं तत् हिमाचलस्य इतिहासे अपूर्वम् अस्ति। सः अवदत् यत् सुखस्य सर्वकारः इति विश्वासं कुर्वत: काङ्ग्रेसस्य अधीनं स्वस्य कार्यकर्तारः अपि सुखम् अनुभवितुं असमर्थाः सन्ति, यदा तु मुख्यमन्त्री स्वसर्वकारेण कियत् सन्तुष्ट: इत्यपि संशय: अस्ति।
ये संविधानम् आलोचितवन्तः ते इदानीं तस्य उद्धरणं ददति
मनरेगा विषये काङ्ग्रेसेन राज्यसर्वकारेण च विरोधस्य विषये विपक्षनेता उक्तवान् यत् ये संविधानस्य सर्वाधिकम् आलोचनां कृतवन्तः ते अधुना तस्य उद्धरणं दत्त्वा जनसमूहं भ्रामयन्ति। सः आरोपितवान् यत् मुख्यमन्त्री, मन्त्रिणः, विधायकाः च केवलं स्वराजनैतिकसन्निधिं निर्वोढुम् एव केन्द्रसर्वकारस्य विरुद्धं विरोधान् कुर्वन्ति।
केन्द्रसर्वकारः मनरेगां न समापयति
जयरामठाकुरः स्पष्टीकृतवान् यत् केन्द्रसर्वकारः मनरेगां न समापयति, अपि तु योजनाम् अधिकं प्रभावीकर्तुं तस्मिन् सकारात्मकपरिवर्तनं कुर्वन् अस्ति।
पंचायतनिर्वाचने मुख्यमंत्रिण: प्रतिक्रिया दुर्भाग्यपूर्णा
पंचायतीराजसंस्थानिर्वाचनसम्बद्धे आपदाविधानस्य उल्लेखं कृत्वा काङ्ग्रेससर्वकारस्य आलोचना अपि जयरामठाकुरः अकरोत्। सः अवदत् यत् सप्तमासपूर्वं एषा आपदा अभवत्, परन्तु काङ्ग्रेसपक्षस्य सत्तां प्राप्तमात्रेण सम्पूर्णं राज्यम् आपदाग्रस्तं राज्यं घोषितम्। सः उच्चन्यायालयस्य ३० एप्रिलतः पूर्वं निर्वाचनं कर्तुम् आदेशम् उद्धृत्य मुख्यमन्त्रिणः प्रतिक्रिया दुर्भाग्यपूर्णा इति उक्तवान्। विपक्षनेता आग्रहं कृतवान् यत् सर्वकारः प्रकटयतु यत् वास्तवतः कति जनाः आपदाप्रभाविताः जनाः आश्रयं प्राप्तवन्तः। सः अवदत् यत् एकतः कार्यं परिहर्तुं सर्वकारः आपदाविधानस्य आश्रयं गृह्णाति, अपरतः तु स्वस्य त्रिवर्षीयं वार्षिकोत्सवम् आचरति। एतत् प्रत्यक्षं जनस्य वञ्चनम् अस्ति।
