संस्कृतभारती उत्तराञ्चलम् द्वारा पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः
कार्यक्रमस्य शुभारम्भः माननीयः जिला-पञ्चायताध्यक्षः श्री जितेन्द्रप्रसादः, जिलाधिकारी श्रीआशीष भटगांई, तथा नगर-निगम-महापौर्या श्रीमती कल्पना देवलालया च संयुक्तरूपेण दीपप्रज्वलनं कृत्वा अभवत्।
अवसरेऽस्मिन् उपस्थितान् प्रतिभागिनः सम्बोधयन् जिलाधिकारी श्रीआशीष भटगांई महोदय: संस्कृतभाषायामेव स्वउद्बोधनस्य आरम्भं कृतवान्।तेनोक्तं संस्कृतं केवलं भाषा न, अपि तु भारतीय-संस्कृतेः, ज्ञानस्य, मूल्यानां च संवाहिका अस्ति। एते प्रबोधनवर्गाः युवानां मध्ये सांस्कृतिक-चेतनां जागरयन्ति, समाजाय च वैचारिकां दिशां प्रददति । संस्कृतात् एव विज्ञानस्य उत्पत्तिः अभवत्; पाश्चात्यदेशाः अपि संस्कृतस्य अनुकरणं कुर्वन्ति; शून्य-दशमलवयोः आविष्कारस्य जननी संस्कृतैव अस्ति।स्वीयसम्बोधने माननीयः जिला-पञ्चायताध्यक्षः श्री जितेन्द्रप्रसादः संस्कृतभारत्या क्रियमाणानां प्रयासानां प्रशंसां कृत्वा अवदत्— संस्कृतमाध्यमेन राष्ट्रनिर्माणस्य कार्यं क्रियते। एवमेव नगर-निगम-महापौर्या श्रीमती कल्पना देवलालया उक्तं यत् संस्कृतं भारतीय-सभ्यतायाः आत्मा अस्ति; तस्य संरक्षण-संवर्धनार्थं समाजस्य प्रत्येकवर्गः अग्रे आगच्छेत्। एतादृशानां आयोजनानां निरन्तर-आयोजनस्य आवश्यकता इति सा बलं दत्तवती।कार्यक्रमे प्रान्तस्य विभिन्नेषु भागेषु आगतानां प्रतिभागिनां अनुभव-विनिमयः अभवत्, संस्कृत-प्रचार-प्रसारार्थं च संकल्पः कृतः। समापनावसरे आयोजकैः अतिथीनां स्मृतिचिह्न-प्रदानपूर्वकं सम्मानः कृतः।
संस्कृतभारती उत्तराञ्चलस्य प्रान्त-संघठन-मन्त्री गौरवशास्त्री अवदत्— संस्कृतं केवलं भाषा न, अपि तु भारतीय-सभ्यतायाः आत्मा अस्ति। संस्कृतं सामान्य-व्यवहार-भाषारूपेण स्थापयितुं संस्कृतभारत्या निरन्तरं कार्यं क्रियते।
संस्कृतभारती उत्तराञ्चलस्य प्रान्ताध्यक्षः डॉ. आनन्द भारद्वाजः अवदत्— “संस्कृतं भारतवर्षस्य प्राणः अस्ति।”
कार्यक्रमे प्रान्त-मन्त्री गिरीश तिवारी, प्रान्त-प्रचारप्रमुखः श्री जगदीश जोशी, परिसर-निदेशकः हेमचन्द्र पाण्डेयः, जनपद-मन्त्री डॉ. रघुनाथ भट्टः, जनपद-प्रचार-प्रमुखः डॉ. गोपेश पाण्डेयः, श्रीज्योतिप्रकाश जोशी, आचार्यः पवन पाठकः, धर्मराज भट्टः, मनोज पाण्डेयः, डॉ. गणेश उपाध्यायः, प्रियांशु उप्रेती, देवेन्द्र सिंह बोरा, वर्गाधिकारी नवीन जोशी, प्रकाश जोशी, सन्तोष कापड़ी इत्यादय: कार्यकर्तार: सामाजिका: च उपस्थिताः आसन्।
कार्यक्रमस्य संचालनं पिथौरागढ़स्य जनपदमन्त्री डॉ. रघुनाथ भट्टेन कृतम्, समापनकाले च सर्वेषां प्रतिभागिनां प्रति कृतज्ञता व्यक्ता कृता।
