By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः
संस्कृतगतिविधयः

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

डॉ.अमनदीप शर्मा
Last updated: 2026/01/10 at 6:39 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

संस्कृतभारती उत्तराञ्चलम् द्वारा पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः
कार्यक्रमस्य शुभारम्भः माननीयः जिला-पञ्चायताध्यक्षः श्री जितेन्द्रप्रसादः, जिलाधिकारी श्रीआशीष भटगांई, तथा नगर-निगम-महापौर्या श्रीमती कल्पना देवलालया च संयुक्तरूपेण दीपप्रज्वलनं कृत्वा अभवत्।
अवसरेऽस्मिन् उपस्थितान् प्रतिभागिनः सम्बोधयन् जिलाधिकारी श्रीआशीष भटगांई महोदय: संस्कृतभाषायामेव स्वउद्बोधनस्य आरम्भं कृतवान्।तेनोक्तं संस्कृतं केवलं भाषा न, अपि तु भारतीय-संस्कृतेः, ज्ञानस्य, मूल्यानां च संवाहिका अस्ति। एते प्रबोधनवर्गाः युवानां मध्ये सांस्कृतिक-चेतनां जागरयन्ति, समाजाय च वैचारिकां दिशां प्रददति । संस्कृतात् एव विज्ञानस्य उत्पत्तिः अभवत्; पाश्चात्यदेशाः अपि संस्कृतस्य अनुकरणं कुर्वन्ति; शून्य-दशमलवयोः आविष्कारस्य जननी संस्कृतैव अस्ति।स्वीयसम्बोधने माननीयः जिला-पञ्चायताध्यक्षः श्री जितेन्द्रप्रसादः संस्कृतभारत्या क्रियमाणानां प्रयासानां प्रशंसां कृत्वा अवदत्— संस्कृतमाध्यमेन राष्ट्रनिर्माणस्य कार्यं क्रियते। एवमेव नगर-निगम-महापौर्या श्रीमती कल्पना देवलालया उक्तं यत् संस्कृतं भारतीय-सभ्यतायाः आत्मा अस्ति; तस्य संरक्षण-संवर्धनार्थं समाजस्य प्रत्येकवर्गः अग्रे आगच्छेत्। एतादृशानां आयोजनानां निरन्तर-आयोजनस्य आवश्यकता इति सा बलं दत्तवती।कार्यक्रमे प्रान्तस्य विभिन्नेषु भागेषु आगतानां प्रतिभागिनां अनुभव-विनिमयः अभवत्, संस्कृत-प्रचार-प्रसारार्थं च संकल्पः कृतः। समापनावसरे आयोजकैः अतिथीनां स्मृतिचिह्न-प्रदानपूर्वकं सम्मानः कृतः।
संस्कृतभारती उत्तराञ्चलस्य प्रान्त-संघठन-मन्त्री गौरवशास्त्री अवदत्— संस्कृतं केवलं भाषा न, अपि तु भारतीय-सभ्यतायाः आत्मा अस्ति। संस्कृतं सामान्य-व्यवहार-भाषारूपेण स्थापयितुं संस्कृतभारत्या निरन्तरं कार्यं क्रियते।
संस्कृतभारती उत्तराञ्चलस्य प्रान्ताध्यक्षः डॉ. आनन्द भारद्वाजः अवदत्— “संस्कृतं भारतवर्षस्य प्राणः अस्ति।”
कार्यक्रमे प्रान्त-मन्त्री गिरीश तिवारी, प्रान्त-प्रचारप्रमुखः श्री जगदीश जोशी, परिसर-निदेशकः हेमचन्द्र पाण्डेयः, जनपद-मन्त्री डॉ. रघुनाथ भट्टः, जनपद-प्रचार-प्रमुखः डॉ. गोपेश पाण्डेयः, श्रीज्योतिप्रकाश जोशी, आचार्यः पवन पाठकः, धर्मराज भट्टः, मनोज पाण्डेयः, डॉ. गणेश उपाध्यायः, प्रियांशु उप्रेती, देवेन्द्र सिंह बोरा, वर्गाधिकारी नवीन जोशी, प्रकाश जोशी, सन्तोष कापड़ी इत्यादय: कार्यकर्तार: सामाजिका: च उपस्थिताः आसन्।

कार्यक्रमस्य संचालनं पिथौरागढ़स्य जनपदमन्त्री डॉ. रघुनाथ भट्टेन कृतम्, समापनकाले च सर्वेषां प्रतिभागिनां प्रति कृतज्ञता व्यक्ता कृता।

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति
Next Article चिट्टे कन्ने चिट्टा रंग बदनाम होइ गया-डॉ.रजनीश अवस्थी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?