By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति
हिमाचलवार्ता

एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति

डॉ.अमनदीप शर्मा
Last updated: 2026/01/10 at 6:33 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति।

हिमसंस्कृतवार्ता: बिलासपुरम् । एम्स् बिलासपुरं चिकित्सा-अनुसन्धानक्षेत्रे महतीं प्रगतिं कर्तुं सज्जं भवति। संस्थाने हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्याः स्थापना-प्रक्रिया आरब्धा अस्ति। एषः अत्याधुनिकः उपकरणः न केवलं अनुसन्धानस्य गुणवत्तां वर्धयिष्यति, अपि तु भविष्ये कर्करोगिणां तथा अस्थिरोगिणां (ऑर्थोपेडिक) उपचारं अधिकं सटीकं, सुलभं च सुरक्षितं कर्तुं “गेम-चेन्जर” इव सिद्धो भविष्यति। एषा यन्त्रणा प्रत्यक्षतया कर्करोगस्य उपचारं न करोति, किन्तु उपचारस्य उन्नयनाय आधारं निर्माति। अस्य रिएक्टरस्य साहाय्येन एते “स्मार्ट्” नैनो-कणाः निर्मीयन्ते, ये औषधिं शरीरस्य स्वस्थभागान् अस्पृशन्त एव, सीधैव ट्यूमरपर्यन्तं नयन्ति। अनेन केशपातः, दुर्बलता इत्यादयः दुष्प्रभावाः न्यूनाः भवन्ति, रोगिणां महती राहतिः भवति। एम्-आर्-आइ तथा सी-टी-स्कैन इत्यादि परीक्षणेषु एतेषां नैनो-कणानां प्रयोगेन कर्करोगस्य प्रारम्भिक-अवस्थायामेव अभिज्ञानम् सम्भवति। अस्याः प्रौद्योगिक्याः माध्यमेन हाइड्रॉक्सीएपेटाइट्-सदृशाः पदार्थाः सिद्ध्यन्ति, ये वास्तविक-अस्थिवत् एव कार्यं कुर्वन्ति। एतेषां पदार्थानां कृतघुट्टिकाः (घुटने), कूल्हिकाः तथा दन्त-इम्प्लान्टाः अधिकं दृढाः भवन्ति, शरीरं च तान् शीघ्रं स्वीकुरुते; तेन संक्रमणस्य सम्भावना न्यूनं भवति, पुनर्प्राप्तिः (रिकवरी) च शीघ्रा भवति। स्वदेशीय-निर्माणेन इम्प्लान्टानां मूल्यं न्यूनं भविष्यति, येन दरिद्रतमोऽपि रोगी आधुनिक-शल्यचिकित्सायाः लाभं प्राप्स्यति। विशेषज्ञाः वदन्ति यत् एषः रिएक्टरः १०० तः ३०० डिग्री सेल्सियस तापमानपर्यन्तं तथा अतिभार-दाबे कार्यं करोति। प्रयोगशालायां स नियन्त्रिताः रासायनिक-प्रतिक्रियाः जनयति, याः सामान्य-परिस्थितिषु असम्भवाः स्युः। अस्य उपयोगः न केवलं चिकित्सायां, अपि तु जल-शोधनम्, बैटरी-विकासः, प्रदूषण-नियन्त्रणम् इत्यादिषु पर्यावरण-संरक्षण-कार्येष्वपि भविष्यति। विशेषज्ञानां मतम् अस्ति यत् अनेन छात्रेभ्यः तथा वैज्ञानिकेभ्यः विश्वस्तरीय-प्रौद्योगिक्यां कार्यं कर्तुं अवसरः लभ्यते, यस्य अन्तिमः लाभः प्रत्यक्षतया रोगिभ्यः भविष्यति। एषा प्रौद्योगिकी एम्स् बिलासपुरं केवलं चिकित्सालयं न, अपि तु चिकित्सा-अनुसन्धानस्य केन्द्रं करिष्यति।
कदाचित् सामान्य-एण्टिबायोटिक-औषधानि रोगिषु प्रभावं त्यजन्ति। एषा यन्त्रणा प्रयोगशालायां उच्च-तापमान-दाबयोः नूतनान् रासायनिक-अणून् विकसितुं साहाय्यं करोति, ये जटिल-संक्रमणान् मूलतः नाशयितुं समर्थाः नूतन-औषधीनां निर्माणे उपयुज्यन्ते। यदा चिकित्साप्रौद्योगिकी तथा अनुसन्धानं संस्थानस्य अन्तः एव भविष्यति, तदा भविष्ये परीक्षणानां तथा औषधानां कृते रोगिणां महानगरान् वा महागुणित-निजी-प्रयोगशालाः परिभ्रमितुं न आवश्यकं भविष्यति। सरलतया उक्तं चेत्—एषा एकः अत्यन्तं शक्तिशालीः सुरक्षितश्च दाब-कक्षः अस्ति। प्रयोगशालायां वैज्ञानिकाः अस्मिन् रसायणानि स्थापयित्वा अत्युच्च-तापमाने तानि तापयन्ति, येन तानि नैनो-कणेषु परिवर्तन्ते; एतेषां सूक्ष्म-कणानां उपयोगः रोगिणाम् उन्नत-उपचारे भवति।
क्रयार्थं निविदा-प्रक्रिया आरब्धा
एतस्य महत्त्वपूर्ण-उपकरणस्य स्थापनायै संस्थानं पूर्णतया सिद्धम् अस्ति। एम्स् बिलासपुर-प्रशासनं तस्य क्रयार्थं निविदा-प्रक्रियां (टेंडर्) आरब्धवान् अस्ति, येन शीघ्रमेव अनुसन्धान-प्रयोगशालायां तस्य स्थापना कृत्वा रोगिहितार्थं अनुसन्धान-कार्यं प्रारभ्येत। ३० जनवरी-पर्यन्तं तस्य तकनीकी-प्रक्रिया पूर्णा भविष्यति, तथा आगामिषु मासेषु संस्थाने एषा सेवा उपलब्धा भविष्यतीति अपेक्षा अस्ति।

You Might Also Like

चालानस्य स्थाने एव ‘रियल-टाइम’-अङ्कीय-भुक्ति:, ‘एचआरटीसी’-संस्थायै लप्स्यन्ते १५०० विद्युत्-बस-यानानि — मुख्यमन्त्री सुक्खू

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

एशियाई-क्रीडायाः स्वर्ण-विजेतृभ्यः कन्याभ्यः राजकीय-सेवा प्रत्येकं च एक-कोटि-रूप्यकाणां पुरस्कारः

राजकीय-उच्च-विद्यालय-धारस्य छात्रः अभिनवराणा देशे विद्यालयस्य नाम उज्ज्वलीकृतवान्

रेणुकाक्षेत्रे दशवर्षान्तरं भूयः व्याघ्रस्य गर्जनं श्रुतम्, अक्तूबरमासस्य द्वितीयादिनादारभ्य पयर्टकाः द्रष्टुं शक्ष्यन्ति

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान
Next Article पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?