HP Congress – काङ्ग्रेसदलं महात्मागान्धिनः नाम न मर्दयितुम् अनुमन्यते न च लोपयितुम्

हिमसंस्कृतवार्ता:- शिमला।
राज्यकाङ्ग्रेसेन सोमवासरे जिला-उपायुक्तकार्यालयस्य बहिः मनरेगातः राष्ट्रपितुः नाम अपसार्य तस्य मूलप्रयोजनस्य दुर्बलीकरणस्य विरुद्धं विरोधप्रदर्शनस्य आयोजनं कृतम्। सभां सम्बोधयन् राज्याध्यक्षः विनयकुमारः अवदत् यत् काङ्ग्रेसः राष्ट्रपितुः नाम न मर्दयितुं अनुमन्यते न च लोपयितुम् अनुमन्यते। भाजपायाः एतत् षड्यंत्रं कस्मिन् अपि स्तरे सफलं न भविष्यति इति सः अवदत्। एतदर्थं काङ्ग्रेस-पक्षः सम्पूर्णे देशे राज्ये च जनजागरण-अभियानं प्रारभ्यते। सः अवदत् यत् केन्द्रे पूर्वमनमोहनसिंहसर्वकारेण मनरेगायोजनायाः अन्तर्गतं स्वक्षेत्रेषु निर्धनानाम् असहायानां च ग्रामजनानां कृते जीविकाया: महत्त्वपूर्णा प्रतिज्ञा प्रदत्ता। मोदीसर्वकारेण इदानीं योजनां ह्रस्वं कृत्वा दुर्बलं कृतम्। सः अवदत् यत् अस्य विधाशस्य नाम परिवर्तनं कृत्वा भाजपया राष्ट्रपितुः महात्मागान्धिन: न केवलं अपमानं कृतम्, अपि तु निर्धनानाम् अधिकारः अपि मर्दित: इति। विनयकुमारः अवदत् यत् पूर्वप्रधानमन्त्री डॉ. मनमोहनसिंहस्य नेतृत्वे यूपीए-सर्वकारेण यदा संसदि एषा योजनां प्रवर्तित तदा शतघण्टाधिकं चर्चां कृत्वा सर्वसम्मत्या पारिता। सः अवदत् यत् अद्य मोदीसर्वकारेण राष्ट्रपतिना रात्रौ एव तत् त्वरया पारितम्, यदा तु कृषकाणां निर्धनानाञ्च सम्बद्धानि विधेयकानि अद्यापि लम्बितानि सन्ति। सः अवदत् यत् काङ्ग्रेसपक्षः देशस्य निर्धनानाम् असहायानां च जनानाम् अधिकारार्थं निरन्तरं युद्धं करिष्यति, इतिहासात् देशभक्तानाम् नामानि लोपयितुं सदैव विरोधं करिष्यति। शिमलानगरस्य विधायकः हरीशजनार्था, महापौर: सुरेन्द्रचौहानः च अस्य नूतनस्य विधाननस्य कृते केन्द्रीयभाजपासर्वकारस्य आलोचनां कृत्वा विरोधं सम्बोधयन् यत् एतत् कृषकविरोधी, निर्धनविरोधी च सर्वकारः अस्ति, यस्य यथार्थं मुखम् अधुना राष्ट्रस्य समक्षं प्रकटितम्। अस्मिन्नवसरे काङ्ग्रेसप्रदेशाध्यक्षस्य नेतृत्वे ग्रामीणविकास, पंचायतीराजमन्त्री अनिरुद्धसिंह:, स्थानीयविधायक: हरीश जनार्था, मुख्यमन्त्रिण: मीडियापरामर्शक: नरेशचौहान:, शिमलानगरनिगमस्य महापौर: सुरेन्द्रचौहान:, यशवन्तछाजटा, केहरसिंह: खाची सहिता अन्ये नेतारः दलस्य अधिकारिणः च उपस्थिताः आसन्।
