Congress Rally – नवदेहल्यां “मतचौर: आसनं परित्यज” सभायां सम्मिलिता: मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: अन्ये च कांग्रेसनेतार:
हिमसंस्कृतवार्ता: – नवदेहली।

अखिलभारतीयकाङ्ग्रेससमित्याः आह्वानेन, नवदेहल्यां भाजपाविरुद्धे “मतचौर: आसनं परित्यज” अर्थात्”वोट चोर, गद्दी छोड़” इति अभियाने मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः, काङ्ग्रेसप्रदेशाध्यक्षः विनयकुमारः, राज्यसर्वकारस्य मन्त्रिणः, काङ्ग्रेसविधायकाः, अनेके क्षेत्रीयनेतारः च भागं गृहीतवन्तः। राज्यस्य काङ्ग्रेसकार्यालयेन प्रकटीकृतं यत् अस्मिन् बृहद् समागमे राज्यस्य पञ्चसहस्राधिकाः दलनेतारः कार्यकर्तारः च भागं गृहीतवन्तः।
मण्डीहाउस-इत्यस्य हिमाचलभवने एकत्रिताः दलकार्यकर्तारः स्वपर्वतीयवेषं धारयित्वा प्रातः ११ वादने हस्तेषु फलकं गृहीत्वा रामलीलाप्राङ्गणं मैदानं प्रति गतवन्तः। राज्यकाङ्ग्रेसस्य अध्यक्षः विनयकुमारः नवदेहलीम् आगतानां दलनेतॄणां कार्यकर्तॄणां च आभारं प्रकटयन् देशस्य संविधानस्य रक्षणाय निर्वाचन-आयोगस्य संवैधानिकाधिकारस्य रक्षणाय च विपक्षस्य नेता राहुलगान्धी इत्यस्य स्वरं सुदृढं कर्तुं राहुलगान्धिना सह काङ्ग्रेसः एकतारूपेण तिष्ठति इति अवदत्।
