विनयकुमारः अवदत् यत्, “नड्डा विवरणै: स्पष्टीकुर्यात् यत् केन्द्रसर्वकारेण कस्याः योजनायाः अन्तर्गतं कियत् धनं प्रदत्तम्।”
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशकाङ्ग्रेससमितेः अध्यक्षः विनयकुमारः अवदत् यत् भाजपेति दलस्य राष्ट्रीयाध्यक्ष: केन्द्रीयमन्त्री जगतप्रकाशनड्डा द्वारा च शिमला-भ्रमणकाले यत् वक्तव्यं दत्तं तत् तथ्यरहितं सर्वथा भ्रामकं च अस्ति। सः अवदत् यत् नड्डा विवरणै: स्पष्टीकुर्यात् यत् केन्द्रसर्वकारेण हिमाचलप्रदेशाय कियत् धनं कस्याः योजनायाः अन्तर्गतं कस्य प्रमुखस्य अन्तर्गतं च प्रदत्तम्।
रविवासरे प्रकाशिते वक्तव्ये विनयकुमारः अवदत् यत् शिमलानगरे नड्डा इत्यनेन उक्तं असत्यपुञ्जं एतावत् विशालं यत् कोऽपि लज्जया शिरः लम्बयिष्यति। सत्यं तु एतत् यत् केन्द्रसर्वकारेण आपदानामधेयेन हिमाचलप्रदेशाय एकमपि रुप्यकं न प्रेषितम्। मासत्रयपूर्वं प्रधानमन्त्री नरेन्द्रमोदी ₹१५०० कोटिरूप्यकाणां आपदाश्रयराशिं घोषितवान्, परन्तु राज्यसर्वकारेण अद्यपर्यन्तं तत् धनं न प्राप्तम्। दिल्लीतः पदातिना शिमलानगरं प्राप्तुं प्रायः ९६ घण्टाः भवन्ति, परन्तु भाजपा-पक्षेण एतां घोषणां कृत्वा ९० दिवसाधिकाः व्यतीताः, अद्यापि राज्यं प्रतीक्षते एव
राज्यस्य काङ्ग्रेस-अध्यक्षः अवदत् यत् पूर्वं राज्ये तथाकथितः द्वि-इञ्जिन-सर्वकारः आसीत्, परन्तु तदा अपि भाजपायाः पक्षा: सर्वथा खकारा: सिद्धाः अभवन् । अत एव भाजपाशासनकाले राज्यस्य अर्थव्यवस्था सर्वथा विध्वस्ता अभवत्। अतः नड्डामहोदयस्य पक्षा: केवलं शून्यप्रतिज्ञाः एव सन्ति।
विनयकुमारः अवदत् यत् जगतप्रकाशनड्डा अस्मिन् समये अन्यराज्यात् राज्यसभां प्राप्तवान् अपि तस्य गृहराज्यं सर्वदा हिमाचलप्रदेशः एव अस्ति। अतः सः आपदाग्रस्तहिमाचलप्रदेशस्य जनानां दुःखं अवगत्य प्रधानमन्त्रिणा घोषितं ₹1,500 कोटिरूप्यकाणि तत्क्षणमेव मुक्तं कुर्यात्।
नड्डा इत्यस्य शिमला-भ्रमणस्य प्रतिक्रियां दत्त्वा विनयकुमारः अवदत् यत् तस्य भ्रमणं केवलं राजनैतिकम् एव अस्ति । केन्द्रीयमन्त्री इति नाम्ना सः न किमपि ठोस आश्वासनं दत्तवान्, न च राज्याय किमपि वास्तविकं साहाय्यं कृतवान् । सः आरोपितवान् यत् केन्द्रे भाजपासर्वकारः हिमाचलप्रदेशस्य विमातृरूपेण व्यवहारं करोति, राज्यं प्रति नेत्रे निमील्य च तिष्ठति। विगतत्रिषु वर्षेषु केन्द्रसर्वकारेण राज्याय विशेषसहायता न दत्ता, राज्यात् निर्वाचिताः भाजपासांसदाः मिथ्यासांख्यिकीम् उपस्थापयित्वा जनान् भ्रामयितुं असफलाः प्रयतन्ते।
