राज्यस्य प्रथमसंस्कृतसमाराधकसम्मानेन रौशनलालगौड: समलंकृत: ।
उत्तराखण्डसंस्कृताकादम्या समायोजितस्य सप्तदशराज्यस्तरीयसंस्कृतस्पर्धामहोत्सवस्य पञ्चविंशत्युत्तरद्विसहस्रतमस्य भव्ये ऐतिहासिके च समापनसमारोहे पौडीजनपदस्य संयोजकः श्रीमान् गौडरौशनलालः संस्कृतभाषायाः प्रचाराय द्वादशवर्षेभ्यः निरन्तरं कृतनिष्ठानिःस्वार्थसेवाभ्यः राज्यस्य प्रथमेन संस्कृतसमाराधकः सम्मानेन समलङ्कृतः ॥
अयं विशिष्टः पुरस्कारः संस्कृतभाषायाः प्रचारे प्रसारे संरक्षणे नूतनप्रयोगाणां सृजनात्मककार्यकलापानां तथा चोत्कृष्टशैक्षिकनेतृत्वस्य अनुपमयोगदानार्थं तस्मै समर्पितः । येन योगदानेन सम्पूर्णे प्रान्ते संस्कृतसंवर्धनस्य नूतना प्रेरणा सञ्चारिता ॥
सम्मानमिदम् उत्तराखण्डसंस्कृताकादम्याः माननीयसचिवैः प्राध्यापकैः पन्तमहोजकिशोरैः उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिभिः प्राध्यापकैः शास्त्रिदिनेशमहोदयैः तथा च संस्कृतनिदेशालयस्य निदेशिकया कञ्चनादेवराडीमहोदयाभिश्च स्वकरकमलैः प्रदत्तः ॥
कार्यक्रमेऽस्मिन् शोधाधिकारी हरीशगुरुरानी वित्ताधिकारी श्रीसतेन्द्रडबरालाः प्रकाशानाधिकारी श्रीकिशोरीलालरतूडी सहायनिदेशक: बाजश्रवा आर्य: , चण्डीप्रसादघिल्डियाल: पौडीजनपदस्य सहायनिदेशक: श्रीमनोजसेमल्टीमहोदय: कुलसचिव: दिनेशकुमारा: सहैव प्रदेशस्य सर्वे जनपदसंयोजका: सहसंयोजका: विशिष्टगणमान्याश्च समुपस्थिताः आसन् ॥
हरिद्वारे प्रवृत्तेऽस्मिन् द्विदिवसीये राज्यस्तरीये संस्कृतमहोत्सवे उत्तराखण्डस्य विविधजनपदेभ्यः समागताः शिक्षकप्रतिनिधयः मार्गदर्शकाः आचार्याः सहस्रमिताः छात्राश्च महोत्साहेन ऊर्जया च स्वकीयप्रतिभायाः विराट्प्रदर्शनं चक्रुः ॥ विविधसंस्कृताभिनवप्रस्तुतिभिः शास्त्रीयवाचनैः नाट्यनृत्यगीतादिभिः शास्त्रार्थचर्चाभिश्च सम्पूर्णः परिसरः संस्कृतवाङ्मयस्य भारतीयज्ञानपरम्परायाश्च सौरभ्येण सुरभितोऽभवत् ॥
अतिथिगणैः संस्कृतभाषा राष्ट्रस्य सांस्कृतिकपुनरुत्थानस्य मूलाधारः इति उद्घोष्य उत्तराखण्डसंस्कृताकादम्याः अथकप्रयासाः भूरिशः श्लाघिताः ॥ सर्वान् विजेतॄन् प्रतिभागिनः आचार्यांश्च ते भविष्यत्कामनया अन्वगृह्णन् ॥
सम्मानमिदं न केवलं गौडरौशनलालस्य अनवरतपरिश्रमस्य फलं अपितु सर्वेषां संस्कृतसेवकानां गौरवाय कल्पते ॥
