KKSU Ramtek – नागपुरे अनुप्रयुक्तरत्नविज्ञाने 21 दिवसीयकार्यशालाया: उद्घाटनम्
हिमसंस्कृतवार्ता:- नागपुरम्।
कविकुलगुरु- कालिदास- संस्कृत- विश्वविद्यालयस्य अभिनवभारतीवारङ्गपरिसरद्वारा आयोजितायाः २१ दिवसीयाया: अनुप्रयुक्तरत्नविज्ञानस्य कार्यशालायाः उद्घाटनं नागपुरनगरस्य उत्कर्षविदर्भहिन्दीसाहित्यसम्मेलने अभवत्। वारंगा परिसरस्य निदेशकः कार्यक्रमस्य समन्वयकः च प्राध्यापकः कृष्णकुमारपाण्डेयः कार्यशालायाः उद्देश्यं शैक्षिकं महत्त्वं च प्रकाशयन् स्वागतभाषणं कृतवान्। अस्याः कार्यशालायाः केन्द्रीयसंस्कृतविश्वविद्यालयात् आर्थिकानुदानं प्राप्तम्। विश्वविद्यालयस्य संस्थापक: कुलपति: डॉ. पंकजचांदे मुख्यातिथिरूपेण उपस्थित: आसीत्। सः रत्नशास्त्रस्य, जातशास्त्रस्य च महत्त्वस्य विषये स्वस्य अन्वेषणात्मकान् अनुभवान् प्रकटितवान्। कार्यक्रमस्य अध्यक्षता कार्यवाहककुलपतिः डॉ. अतुलवैद्यः अकरोत्, येन रत्नानाम् वैज्ञानिकपक्षेषु, रत्नविज्ञानस्य सामाजिकलाभेषु च विशेषं बलं दत्तम्। वास्तुशास्त्रविभागाध्यक्ष प्रो. प्रसाद गोखले धन्यवादज्ञापनं कृतवान्। कार्यक्रमस्य संचालनं डॉ. अम्बालिका सेठिया, अनवेशदेवलापल्ली महोदयेन शान्तिमन्त्रस्य पाठः कृतः। विश्वविद्यालयस्य प्राध्यापकाः, छात्राः, कार्यशालायाः सहभागिनः च बहुसंख्यायाम् उपस्थिताः आसन्।
