प्रधानमंत्री नरेन्द्रमोदी आन्ध्रप्रदेशस्य पुट्टपर्थी-नगरे भगवतः श्री सत्यसाईं बाबा-वर्यस्य शतवार्षिक- जन्मोत्सवे भागं भजितवान्।
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् सर्वकारेण चतुर्दशाधिक द्विसहस्रतमे वर्षे पञ्चविंशति कोटिजनानां सामाजिकसुरक्षाव्यवस्था अधुना प्रायः शतकोटिजनानां कृते विस्तृता। आन्ध्रप्रदेशस्य पुट्टपर्थी-नगरे भगवतः श्री सत्यसाई बाबा-वर्यस्य शतवार्षिक-जन्मोत्सवे भागम् अगृह्णन् जनसमूहं सम्बोधयन् प्रधानमन्त्री, स्थानीयस्तरे निर्मितानां उत्पादानां क्रयणेन, स्थानीय-अर्थव्यवस्थां सुदृढं कृत्वा, वोकल्-फ़ार्-लोकल् इति उपक्रमस्य समर्थनाय जनान् आवाहयत्। प्रधानमंत्रीः अवदत् यत्, सम्पूर्ण देशे, अधुना पर्यन्तं प्रायः चतस्रः कोट्यधिकाः एतादृशाः बैंक लेखाः उद्घाटिताः सन्ति, यासु प्रायः पञ्चदशमलवोत्तर त्रीणि लक्ष कोटिरूप्यकाणि सञ्चिताः सन्ति, यत् बालिकाभ्यः वर्धमान-वित्तीय-सुरक्षां प्रतिबिम्बयति। सः अवोचत् यत् यद्यपि श्रीसत्यसाई बाबा भौतिकरूपेण उपस्थितः नास्ति तथापि तस्य प्रेमस्य, सेवायाः, विश्वभ्रातृत्वस्य च शाश्वतसिद्धान्ताः सम्पूर्ण विश्वे कोटिशः जनानां निरन्तरं मार्गदर्शनं कुर्वन्ति। शतवार्षिकोत्सवे, सः भगवतः श्रीसत्यसायि बाबा वर्यस्य जीवनस्य, उपदेशस्य, चिरस्थायीपरम्परायाः च सम्माने शतरुप्यकैः मुद्रा पैष्यचिटीकायाः च विमोचनं मुख्यमन्त्रिणा एन. चन्द्रबाबु नायडु वर्येण सह कृतवान्। पूर्वदिने प्रधानमन्त्रिणा प्रशान्ति निलयम् इत्यस्मिन् महा-समाधौ विशेषार्चना कृता।
प्रधानमंत्री नरेन्द्रमोदी आन्ध्रप्रदेशस्य पुट्टपर्थी-नगरे भगवतः श्री सत्यसाईं बाबा-वर्यस्य शतवार्षिक- जन्मोत्सवे भागं भजितवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
