काङ्ग्रेसः निर्वाचनायोगस्य चरित्रं कलङ्कयति, २७२ सेवानिवृत्ताः न्यायाधीशाः, अधिकारिणः च राहुलगान्धिनः विरुद्धं पत्रं लिखितवन्तः
हिमसंस्कृतवार्ताः। भारतीयनिर्वाचनायोगस्य विरुद्धं काङ्ग्रेससांसदराहुलगान्धीं लक्ष्यं कृत्वा आरोपानाम् विषये पूर्वभारतीयन्यायाधीशाः पूर्वाधिकारिणः च स्वस्य खिन्नतां प्रकटितवन्तः। २७२ पूर्वन्यायाधीशैः पूर्वाधिकारिभिः च लिखिते मुक्तपत्रे राजनैतिककुण्ठां गोपनार्थं संस्थानां लक्ष्यं क्रियते इति उक्तम्। काङ्ग्रेसेन निर्वाचनायोगेन भारतीयजनतापक्षेण सह सहयोगः कृता इति आरोपः कृतः आसीत् । पत्रे उक्तं यत्, “समाजस्य वरिष्ठनागरिकाः वयं चिन्ताम् प्रकटयामः यत् भारतस्य लोकतन्त्रस्य उपरि आक्रमणं क्रियते। एषः आक्रमणः बलेन न, अपितु तस्य संस्थानां प्रति विषयुक्तवाक्पटुतायाः माध्यमेन क्रियते। केचन राजनेतारः स्वस्य नाटकीयराजनैतिकरणनीत्याः भागरूपेण उत्तेजनानां, निराधारानाम् आरोपानाम् आश्रयं गृह्णन्ति, यथा वास्तविकनीतिविकल्पं न प्रदास्यन्ति। पत्रे हस्ताक्षरं कृतवन्तः २७२ जनाः १६ सेवानिवृत्ताः न्यायाधीशाः, १२३ पूर्वाधिकारिणः, १३३ सेवानिवृत्ताः सैन्यपदाधिकारिणः, १४ पूर्वराजदूताः च सन्ति पत्रे उक्तं यत् भारतीयसशस्त्रसेनानां साहसं उपलब्धिषु च प्रश्नं कृत्वा, न्यायपालिकायाः निष्पक्षतायाः विषये प्रश्नं कृत्वा, संसदं तस्याः अधिकारिषु च प्रश्नं कृत्वा, अधुना भारतस्य निर्वाचनआयोगस्य षड्यन्त्रम् अस्ति

