HPCM – २०३२ तमे वर्षे हिमाचलं सर्वाधिकं समृद्धं सुखदं च राज्यं भविष्यति – मुख्यमंत्री सुक्खु:

हिमसंस्कृतवार्ता:- हमीरपुरम्।
देवभूमिः हिमाचलप्रदेशः २०३२ तमवर्षपर्यन्तं देशस्य सर्वाधिकसमृद्धं, सम्पन्नं, धनी च राज्यम् भविष्यति। हिमाचलसर्वकारः स्वावलम्बनस्य हिमाचलस्य स्वप्नस्य पूर्तये निरन्तरं अग्रे गच्छति। २०२७ तमवर्षपर्यन्तं राज्यं स्वनिर्भरं भविष्यति, यस्य कृते ग्राम्य-अर्थव्यवस्था सुदृढा भवति। आगामिषु पञ्चषु वर्षेषु एतत् राज्यं देशस्य आर्थिकदृष्ट्या सर्वाधिकं सुदृढं राज्यं भविष्यति। हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः नादौनविधानसभाक्षेत्रस्य भ्रमणकाले कड़साईस्थाने एतानि वचनानि अकथयत्। सः अवदत् यत् अस्माकं सर्वकारस्य निर्णयाः आम्लकस्य रुचिः इव सन्ति। आम्लकं प्रथमं किञ्चित् कटुः स्वादु भवेत्, परन्तु पश्चात् मधुरः भवति। अस्माकं सर्वकारस्य निर्णयाः अद्य जनानां कृते आश्रयं जनयन्ति। सः अवदत् यत् केन्द्रसर्वकारेण विविधप्रतिबन्धाः स्थापिताः अपि राज्यसर्वकारः हिमाचलीजनानाम् अपेक्षां पूर्णतया पूरितवान् अस्ति। राज्यस्य जनानां हितं सर्वोपरि कृत्वा कठिनपरिस्थितौ निर्णयाः कृताः सन्ति। ग्राम्य-अर्थव्यवस्थां सुदृढां कर्तुं जनान् कृषिकार्यं कर्तुं प्रोत्साह्यते इति मुख्यमन्त्री अवदत्। कृषकाणां आर्थिकबलं सुदृढं कर्तुं क्षेत्रेषु उत्पादितानि धान्यानि सर्वकारः क्रीणाति। प्राकृतिकरूपेण उत्पादित: गोधूमः प्रतिकिलोग्रामं ६० रुप्यकाणां दरेण क्रियन्ते, मक्काशस्यस्य क्रयणं प्रतिकिलोग्रामं ४० रुप्यकेण क्रियते। सः अवदत् यत् हिमाचले हरिद्रा- उत्पादनस्य अपारसंभावना अस्ति। हरिद्रा इति शस्यं यस्य वन्यजन्तुभिः विनाशस्य संकट: नास्ति। अतः कृषकाणां हरिद्रासंवर्धनार्थं प्रोत्साहनं क्रियते। ग्राम्यकृषकेभ्य: राज्यसर्वकारः प्रतिकिलोग्रामं ९० रुप्यकाणां दरेण हरिद्रां क्रीणाति। अस्य अर्थः अस्ति यत् हरिद्रासस्यं ग्राम्य-अर्थव्यवस्थायाः सुदृढीकरणस्य उत्तमं साधनं सिद्धं भविष्यति। यदि कोऽपि बृहत्प्रमाणेन हरिद्रासंवर्धनं करोति तर्हि निश्चितरूपेण लक्षशः आयं जनयिष्यति। मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः गोदुग्धस्य कृते ५१ रुप्यकाणि प्रतिसेटकं समर्थनमूल्यं प्रददाति, महिषदुग्धं च ६० रुप्यकाणि प्रतिसेटकं क्रयणं क्रियते। तेन सह द्विकिलोमीटर- अनन्तरं प्रतिकिलोमीटर- द्वयरूप्यकाणां दरेण भाटकरूपेण भुक्तिः क्रियते। सः अवदत् यत् राज्यसर्वकारेण मनरेगा दैनिकवेतनमपि ८० रुप्यकाणि यावत् वर्धितम्। येन मनरेगा कार्यकर्तारः लाभं प्राप्नुयुः। राजीवगांधी वन संवर्धनयोजनाया: अन्तर्गतं वनसंरक्षणस्य प्रवर्धनं क्रियते। २५ कानालभूमिषु वृक्षरोपणार्थं महिलामण्डलाय,युवकमण्डलाय १ लक्षं २० सहस्ररुप्यकाणां प्रोत्साहनं दास्यते। यदि प्रथमवर्षे रोपितानां वृक्षाणां ५० प्रतिशतं अपि सफलता भवति तर्हि अग्रिमे वर्षे पुनः एकलक्षरुप्यकाणां दानस्य प्रावधानं कृतमसवति। सौर ऊर्जायाः प्रवर्धनार्थं सौरसंस्थानस्थापनं प्रति जागरूकतां जनयितुं कार्यं क्रियते इति सः अवदत्। जनाः सौरसंस्थानानि स्थापयित्वा स्वस्य आयं वर्धयितुं शक्नुवन्ति।
