Raja Virbhadra Singh Statue – वीरभद्रसिंहस्य विचारै: अग्रे वर्धयितुं सन्देशं प्रसारयन् ऐक्यभावस्य पाठं पाठितवती प्रियंका गांधी
राठौरस्य प्रशंसायाः कोऽर्थः❓

हिमसंस्कृतवार्ता:- शिमला।
सोमवासरे शिमलानगरस्य ऐतिहासिक- रिजप्राङ्गणे पूर्वमुख्यमन्त्रिण: वीरभद्रसिंहस्य प्रतिमायाः अनावरणकाले हिमाचलप्रदेशस्य काङ्ग्रेसनेतृभ्यः ऐक्यभावस्य शिक्षणं कृतम्। समागमे काङ्ग्रेसस्य महासचिव प्रियङ्का वाड्रा अद्यत्वे राजनीत्यां वीरभद्रसिंह इत्यादयः नेतारः दुर्लभाः इति उक्तवती।
य: मार्ग: महात्मा गान्धी, पंडित जवाहरलालनेहरू: इत्येतै: राष्ट्रं प्रति दर्शितम् सैव मार्ग: वीरभद्रसिंह: हिमाचलस्य जनान् अपि दर्शितवान्, अस्माभिः तस्य मार्गस्य अनुसरणं कर्तव्यम्। सा एव काङ्ग्रेसस्य मूलविचारधारा अस्ति। यदि राहुलगान्धी निर्भयतया सत्यं वदति तर्हि सः एतां विचारधाराम् अनुसरति।

सा अवदत् यत्, “अद्य देशे एतादृशाः नेतारः आवश्यकाः ये जनसम्पर्कमाध्यमाः, इवेण्ट- प्रबन्धनं च परं गत्वा राष्ट्रस्य हिताय जनानां च कृते कार्यं कुर्वन्ति। अस्माकं राष्ट्रस्य विकासाय प्रतिबद्धा राजनैतिकव्यवस्था आवश्यकी अस्ति। प्रियङ्का गान्धी अवदत् यत् अस्माभिः अस्य राज्यस्य उपत्यकानां रक्षणं कर्तव्यम् अस्ति।
प्रियङ्का यदा केन्द्रसर्वकारं लक्ष्यं कृतवती तदा सा दलनेतृभ्यः प्रामाणिकतया कार्यं कर्तुं अपि परामर्शं दत्तवती। ततः पूर्वं आयोजनस्य मुख्यातिथिः सोनिया गान्धी वीरभद्रस्य प्रतिमायाः अनावरणं कृतवती। सोनिया भाषणं न कृतवती।
राठौरस्य प्रशंसायाः अर्थस्य विषये कार्यकर्तार: अनुमानं कुर्वन्ति स्म
काङ्ग्रेस अध्यक्षा प्रतिभासिंहः मञ्चात् कुलदीपराठौरस्य प्रशंसाम् अकरोत्। सा अवदत् यत् तस्य नेतृत्वे संस्था सुदृढा अभवत्, प्रगतिः च अभवत्। पूर्वं रजनी पाटिल इत्यनया नारकण्डायां ठियोगे इत्यत्र आयोजिते कार्यक्रमे राठौरस्य प्रशंसा अपि कृता आसीत्। आयोजनानन्तरं कार्यकर्तार: अस्याः स्तुतेः अर्थस्य अनुमानं कर्तुं आरब्धवन्तः। किं राठौरः अध्यक्षपदे पुनः नियुक्तः भवितुम् अर्हति?
प्रातः ९ वादने जनाः आगन्तुम् आरब्धवन्तः
वीरभद्रसिंहस्य प्रतिमायाः अनावरणसमारोहाय जनाः प्रातः ९ वादनात् एव आगन्तुं आरब्धवन्तः, सोमवासरः शिमलानगरे व्यस्तदिवसः अभवत्, सम्मर्द: च सामान्यः अस्ति अतः प्रातःकाले जनाः आगन्तुं आरब्धवन्तः। परन्तु आयोजनाय आगच्छन्ताम् कृते पुलिसैः सम्पूर्णनगरे अस्थायीपार्किङ्गस्थानानि स्थापितानि आसन्।

सुक्खु: विक्रमादित्यम् आलिंगितवान्
मुख्यमन्त्री तथा काङ्ग्रेसराज्यप्रभारी रजनी पाटिल्श ११:२५ वादने आयोजनस्थलम् आगता:। मञ्चे उपस्थिताः सर्वे नेतारः तस्याः स्वागतं कृतवन्तः। विक्रमादित्यसिंहः मुख्यमन्त्रिणः स्वागतं कृतवान्, यः तम् आलिंगितवान्। मुख्यमंत्री सुक्खुः उपमुख्यमन्त्री मुकेश अग्निहोत्री चापि आलिंगनं कृतवन्तौ।
सोनियां ‘मातृतुल्या’ इति सम्बोधितवान्
विक्रमादित्यसिंहः सोनिया गान्धीं ‘मातृतुल्या’ इति सम्बोधितवान्। विक्रमादित्यस्य मञ्चं प्राप्तमात्रेण कार्यकर्तारः घोषोद्घोषै:, सीटीभिः च स्वागतं कृतवन्तः। सम्पूर्णं वातावरणं चिरकालं यावत् घोषै: प्रतिध्वनितम्।
