उपराष्ट्रपतित्वेन शपथं गृहीतवान् सी.पी.राधाकृष्णनवर्य:
हिमसंस्कृतवार्ता: – राष्ट्रपतिः द्रौपदीमुर्मुः राष्ट्रपति-भवने आयोजिते शपथग्रहणसमारोहे सी.पी. राधाकृष्णनवर्यं भारतस्य पञ्चदशतमस्य उपराष्ट्रपते: पदस्य शपथग्रहणं कारितवती। अस्मिन् शपथग्रहणसमारोहे प्रधानमन्त्री नरेन्द्रमोदी, पूर्वराष्ट्रपतिः रामनाथ कोविंदः, पूर्व-उपराष्ट्रपतिः जगदीपधनखडः, अमितशाहः, राजनाथ सिंहः, जेपी नड्डा, नितिन गडकरी एवं अन्येऽपि केन्द्रीय मन्त्रिणः उपस्थिताः आसन्। शपथ-ग्रहणानन्तरं उपराष्ट्रपतिः सी.पी. राधाकृष्णनवर्यः राजघाटस्थले महात्मागान्धिने पुष्पांजलिं समर्पितवान्। तेन सदैव अटलेत्यत्र पूर्वप्रधानमन्त्रिणं अटलबिहारी बाजपेयीवर्यं अपि श्रृद्धांजलिः समर्पिता। अवधेयं यत् अस्य मासस्य नवमे दिनांके उपराष्ट्रपतिः निर्वाचने श्री राधाकृष्णनवर्येण द्विपञ्चाशदधिक चतुः शतानि मतानि सम्प्राप्य तेन बी सुदर्शन रेड्डीवर्यं द्विपञ्चाशदधिकैकशत मतैः पराजितम्।
श्रीराधाकृष्णनवर्यः एकः समर्पितः लोक सेवकः अस्ति- प्रधानमन्त्री नरेन्द्रमोदी।
प्रधानमन्त्रिणा नरेन्द्रमोदिना सीपी-राधाकृष्णनवर्यं नागरिकाणां सेवायां समर्पितस्य तस्य सफल उपराष्ट्रपतिपदस्य कार्यकालाय शुभकामनाः प्रदत्ता। श्रीमोदिना एकस्मिन् सोशलमीडिया सन्देशे उक्तं यत् श्रीराधाकृष्णनवर्यः एकः समर्पितः लोक सेवकः अस्ति तेन स्वकीयं सम्पूर्णं जीवनं राष्ट्रनिर्माणे, समाजिककार्ये, लोकतन्त्रं सुदृढीकरणे च समर्पितम्।
सी.पी.राधाकृष्णनवर्य: उपराष्ट्रपतित्वेन शपथं गृहीतवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
