By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: गुजरातस्य गान्धिनगरस्थे समर्पण-आर्ट्स्-कॉमर्स-महाविद्यालये संस्कृतसम्भाषणवर्गस्य शुभारम्भः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > गुजरातस्य गान्धिनगरस्थे समर्पण-आर्ट्स्-कॉमर्स-महाविद्यालये संस्कृतसम्भाषणवर्गस्य शुभारम्भः
संस्कृतगतिविधयःप्रादेशिकवार्ता

गुजरातस्य गान्धिनगरस्थे समर्पण-आर्ट्स्-कॉमर्स-महाविद्यालये संस्कृतसम्भाषणवर्गस्य शुभारम्भः

जगदीश डाभी
Last updated: 2025/09/12 at 5:28 PM
जगदीश डाभी
Share
3 Min Read
SHARE

गुजरातस्य गान्धिनगरस्थे समर्पण-आर्ट्स्-कॉमर्स-महाविद्यालये संस्कृतसम्भाषणवर्गस्य शुभारम्भः

वार्ताहर: – जगदीश डाभी, गान्धिनगरम्।

अद्य गुजरातप्रदेशस्य राजधान्यां गान्धिनगरस्थितः समर्पण-आर्ट्स्-कॉमर्स-महाविद्यालयः संस्कृतभारती-गान्धीनगर-प्रान्तः च इत्येतयोः संयुक्ते उपक्रमे
संस्कृतसम्भाषणवर्गस्य उद्घाटनसमारोहः सुसम्पन्नः।
एषः दशदिनात्मकः संस्कृतसम्भाषणवर्गः समर्पण-महाविद्यालये विद्यार्थिनां हिताय, नगरजनानां च संस्कृताभिलाषिणां कृते समायोजितः अस्ति। अपि च ११/०९/२०२५ दिनाङ्कात् समारभ्य २०/०९/२०२५ पर्यन्तं प्रवर्तिष्यते।

अयं समारम्भः अतिथीनां समागमनेन सह समारब्धः मङ्गल-प्रार्थनया समारब्धः। महाविद्यालयस्य छात्रा कुमारी ऋष्मिता परमारः मधुरस्वरेण “मारुं जीवन अञ्जलि थाजो…” इति गीतं गित्वा सर्वान् हर्षितवती। ततः संस्कृतविभागस्य अध्यापकः डा. हेमन्त वैष्णवः कार्यक्रमे समागतानाम् अतिथीनां शाब्दिकं स्वागतं कृत्वा परिचयं दत्तवान्।

अस्मिन् समारोह-प्रसङ्गे उवारसद-शङ्करालोक-वेदशाला संस्थायाः स्वामीश्रीः पूज्यपादः विरेश्वरगिरिजी महाराजः मुख्य-अतिथिरूपेण समुपातिष्ठत्। पुष्पमालया शालसमर्पणेन च स्वामिवर्यस्य सम्मानं महाविद्यालयस्य प्राचार्यः डा. आशीषकुमार जनकराय-दवे महोदयः कृतवान्। स्वामीजी स्वीयाशीर्वचने अवदत् “संस्कृतभाषा अस्माकं जननी, अपि च सङ्गणकाय सर्वथा अनुकूला वैज्ञानिकी च भाषा। एषः वर्गः संस्कृताध्ययनस्य उत्कृष्टः अवसरः, विद्यार्थिनः अस्य सम्पूर्णं लाभं गृह्णन्तु” इति प्रेरितवन्तः।

विशिष्ट-अतिथिरूपेण डा. मयूरीभाटिया (अध्यक्षाः, संस्कृतविभागः, गुजरात-विश्‍वविद्यालयः) समुपातिष्ठत्। महोदयायाः स्वागतं डा. अल्पा पटेल (अध्यक्षाः, संस्कृतविभागः) कृतवती। डा. मयूरीभाटियामहोदयायाः उद्बोधनं महत्त्वपूर्णम् आसीत्— “संस्कृतभाषायामेव वेदाः, उपनिषदः, रामायणं, महाभारतम् इत्यादयः सनातनसंस्कृतेः सर्वे ग्रन्थाः निहिताः सन्ति। विज्ञानस्य च आध्यात्मस्य च संगमः संस्कृतग्रन्थेषु द्रष्टुं शक्यते। तस्मात् संस्कृतस्य अध्ययनम् अनिवार्यतया करणीयमेव।”

कार्यक्रमस्य अध्यक्षपदे आसीनः डा. आशीषकुमार जनकराय-दवे महोदयाय स्वागतं व्याहरत् डा. हेमन्तवैष्णवः। असौ स्वीयाध्यक्षीय-उद्बोधने अवोचत्- “यत् राष्ट्रं स्वमातृभाषायां प्रीणाति, तत् शीघ्रंशमेव विकसितं भवति। इजरायल्-देशः लघुतमः अपि स्व-हिब्रू-भाषायाः प्रेम्णा विश्वे स्थिरः जातः। भारतस्य मूलभाषा संस्कृतम् अस्ति। अस्माभिः संस्कृतस्य गौरवं गेयम्, संस्कृतं च प्रियं कर्तव्यम्। अत्र सम्भाषणवर्गेषु केवलं दशसु संस्कृतं सुगमेन मार्गेण शिक्षितुं शक्यते। अतः एषः कार्यक्रमः आयोजितः।”

अस्य वर्गस्य संचालनकर्तुः श्री हिामांशुपण्ड्या महोदयस्य संस्कृतविभाग-अध्यापकः डा. ठाकोरभाई नायकः स्वागतं कृतवान्। हिामांशुपण्ड्या महोदयेन वर्गस्य भूमिका प्रतिपादिता, विद्यार्थिभिः ध्ये‍यमन्त्रः च गापितः।

नवदिल्लीस्थेन केन्द्रीय-संस्कृत-विश्‍वविद्यालयेनसञ्चालितस्य संस्कृताध्ययनकेन्द्रस्य प्रतिनिधिरूपेण पाठ्यक्रम-समन्वयिका आचार्या जयश्रीः ठक्कर महोदया अपि समुपस्थिता आसीत्। तस्याः स्वागतं प्रो. श्वेता पंवार (अध्यापिका, अंग्रेजीविभागः) कृतवती। जयश्रीठक्कर महोदया अवदत्— “केन्द्रीय-संस्कृत-विश्‍वविद्यालयद्वारा संस्कृतभाषायाः अध्ययनार्थम् एषः स्वर्णिमः अवसरः प्रदत्तः अस्ति। संस्कृतभाषाजिज्ञासूनां कृते विश्वविद्यालयपरतया संस्कृताध्ययनाय सर्वविधं साहाय्यं प्रदास्यते।”

तथा विभागाध्यक्षा डा. अल्पा पटेल महोदयायाः स्वागतं समाजशास्त्रविभागस्य अध्यापिका डा. रमीला पटेल कृतवती।

अन्ते आभारप्रदर्शनं डा. अल्पा पटेलमहोदया उक्तवती यत् “अद्य उपस्थिताः सर्वे मान्यवराः, सहयोगदातारः, सहकर्मिणः अध्यापकाः, सर्वेभ्यः हार्दाः धन्यवादाः।”

अस्मिन् कार्यक्रमे संस्कृतविभागात् अन्यविभागात् च ६८ विद्यार्थिनः भागं गृहीत्वा संस्कृतभाषाशिक्षणस्य आनन्दम् अनुभूतवन्तः। अध्यापकाः अपि उपस्थाय कार्यक्रमं सफलं कर्तुं प्रोत्साहनं प्रदत्तवन्तः। समग्र-कार्यक्रमस्य सञ्चालनं डा. ठाकोरभाई नायकः यशस्वितया कृतवान्।

You Might Also Like

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

*गाजोलमहाविद्यालये छात्रसप्ताहोत्सवे अन्नमहोत्सवः सम्पन्न:*

संस्कृतभारत्याः काशीप्रान्तस्य प्रबोधनवर्गस्य समापन-दीक्षान्तकार्यक्रमः अद्य सुसम्पन्नः जातः।

TAGGED: आज के संस्कृत समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article संस्कृतिबोधपरियोजनायाः प्रसाराय गीतानिकेतन-आवासीयविद्यालये महासम्पर्क-अभियानम्
Next Article प्रधानमन्त्री श्रीनरेन्द्रमोदी पाण्डुलिप्याः अङ्कीकरणस्य ज्ञानभारतम् पोर्टल् इति डिजिटलमञ्चस्य शुभारम्भ: कृतवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?