संस्कृतिबोधपरियोजनायाः प्रसाराय गीतानिकेतन-आवासीयविद्यालये महासम्पर्क-अभियानम्
विद्याभारती सम्पूर्णे देशे सञ्चालयति सहस्राधिकान् विद्यालयान्। तेषु विद्यालयेषु संस्कृतिबोधपरियोनाद्वारा विभिन्नगतिविधीनां सञ्चालनं क्रियते।
अनेन जनाः स्वसंस्कृतिं,परम्परां,महापुरुषान्,पर्वाणि,साहित्यम् इत्यादि ज्ञास्यन्ति।
सम्प्रति विद्याभारती सामाजिकान्,अभिभावकान् विशिष्टजनान् च अस्यां योजनायां योजयितुम् अभिलषति।
अस्यामेव श्रृंखलायां कुरुक्षेत्रस्थेन गीतानिकेतन-आवासीयविद्यालयेन 11 सितम्बर इति दिनाङ्के महासम्पर्क-अभियानं कृतम्।
अस्मिन् अभियाने प्रायः पञ्चाशत् आचार्याः गृहं-गृहं गत्वा अभिभावकान् अस्यां योजनायां योजितवन्तः।
प्राचार्येण श्रीमता नारायणसिंहमहोदयेन कथितं यत् अस्मिन् एव दिनाङ्के स्वामिना विवेकानन्दमहोदयेन समग्रे अपि विश्वे भारतीया संस्कृतिः प्रसारिता। अतः वयमपि अस्याः संस्कृतेःप्रसाराय प्रयत्नं करवाम इति।
संस्कृतिबोधपरियोजनायाः प्रसाराय गीतानिकेतन-आवासीयविद्यालये महासम्पर्क-अभियानम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
