KKSU Ramtek – प्रो. त्रिपाठिवर्यस्य निधनं संस्कृतक्षेत्रस्य अपूरणीया क्षति:
कविकुलगुरु- कालिदास- संस्कृत- विश्वविद्यालयेन प्रो हरेरामत्रिपाठिवर्याय श्रद्धांजलि: अर्पिता
हिमसंस्कृतवार्ता:- नागपुरम्।
कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयस्य आयोजनेन गुरुवासरे २८ अगस्त २०२५ दिनाङ्के दिवंगताय कुलपतिः प्रो. हरेरामत्रिपाठिवर्याय श्रद्धांजलिः समर्पिता। कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयपरिवारेण कुलपतिः प्रो हरेराम: त्रिपाठी, तस्य पत्नी श्रीमती बदामी देवी, तस्य सारथिणे श्री वैभवमिश्राय च श्रद्धांजलि: अर्पिता।
अस्यां शोकसभायां विश्वविद्यालयस्य संस्थापककुलपतिः मा. डॉ. पंकज चांदे, पूर्वकुलसचिव: डॉ. रामचन्द्र: जोशी, संस्कृतभारत्या: विदर्भस्य प्रान्तमन्त्री डॉ. मोहन खेडकर, डॉ. श्रीनिवासवर्णेकर, रामटेकस्य श्विवेक तोतडे इत्यादयः शोकसंवेदनां प्रकटितवन्तः।
डॉ. पंकज चांदे उक्तवान्, प्रो. त्रिपाठीसदृशस्य संस्कृतविदुष: असामयिकं निधनं संस्कृतक्षेत्रस्य अपूरणीया क्षति: वर्तते। तस्य निधनेन अहं अतीव दुःखितः अस्मि, एतेषु वर्षद्वयेषु सः मराठी, संस्कृतं, परम्परां च आत्मसात् कृतवान् आसीत्। तस्य प्रसन्नमुखं स्नेहपूर्णं स्वभावं च गम्यते। वाराणस्या: विद्वत्परम्परायां शिक्षितः प्रो. त्रिपाठी नवन्यायस्य न्यायशास्त्रस्य च विद्वान् आसीत्। तस्य असामयिकं निधनं विश्वविद्यालयस्य अपूरणीया हानिः अस्ति।
केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी, महर्षिवाल्मीकि- संस्कृत- विश्वविद्यालयस्य कुलपतिः प्रो. संजयगोयलः, महर्षिपाणिनी- संस्कृत- वैदिक- विश्वविद्यालयस्य पूर्वकुलपतिः प्रो. विजयकुमारः, श्रीमती नाथीबाई ठाकरसी महिलाविद्यापीठस्य प्रो उज्ज्वला चक्रदेव, संत गाडगेबाबा अमरावती विद्यापीठस्य कुलगुरु: डॉ मिलिंद: बाराहाते, संगीत- नाटक- अकादम्या: अध्यक्षा डॉ. संध्या पुरेचा, रत्नागिरी उपकेन्द्र- निदेशकस्य डॉ. दिनकर मराठे आदय: शोकोद्गारान् प्रकटितवन्त:।
अस्मिन् अवसरे सर्वैः प्रार्थना कृता यत् कुलपते: प्रो. त्रिपाठीवर्याय सपत्नीकाय सारथिणे च आत्मन: शान्ति: भवतु दिवंगतानां भगवद्धामे वास: भवतु इति।
कुलसचिव: डॉ. देवानंदशुक्ल: आभारं ज्ञापितवान्। कृतज्ञतां प्रकटयन् सः अवदत् यत् विश्वविद्यालयस्य पृष्ठतः एकः विशालः परिवारः अस्ति, ये अस्मान् सान्त्वनाय आगतवन्तः तेषां सर्वेषां कृते अहं कृतज्ञः अस्मि। शोकपाठस्य एवं श्रद्धांजलिसभाया: संचालनं जनसंपर्क- अधिकारी डॉ. रेणुका बोकारे अकरोत्।
