By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: शोकवार्ता:- प्रो. हरेरामत्रिपाठीवर्यस्य मार्गदुर्घटनायां निधनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > शोकवार्ता:- प्रो. हरेरामत्रिपाठीवर्यस्य मार्गदुर्घटनायां निधनम्
राष्ट्रीयवार्ताः

शोकवार्ता:- प्रो. हरेरामत्रिपाठीवर्यस्य मार्गदुर्घटनायां निधनम्

डॉ.अमनदीप शर्मा
Last updated: 2025/08/23 at 3:41 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

*कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य कुलपते: प्रो. हरेरामत्रिपाठीवर्यस्य मार्गदुर्घटनायां निधनम्*
हिमसंस्कृतवार्ता: – नागपुरम्।
कविकुलगुरुकालिदाससंस्कृत- विश्वविद्यालयस्य माननीयः कुलपतिः प्रो.हरेराम: त्रिपाठी इत्यस्य उत्तरप्रदेशस्य मऊ-कुशीनगरं गच्छन् २०२५ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के मार्गदुर्घटनायां निधनम् अभवत् । तेन सह तस्य पत्नी श्रीमती बदामी त्रिपाठी अपि मृता। अपि च तस्य चालकः वैभव मिश्रमहोदयस्य स्थितिः गम्भीरा अस्ति, सः चिकित्सालये प्रवेशितः अस्ति। कुलपते: मृत्युः सम्पूर्णस्य कालिदाससंस्कृतविश्वविद्यालयपरिवारस्य कृते आघातः अस्ति तथा च एषा घटना परिवारस्य कृते वज्रपातः अस्ति।

प्रो हरेराम त्रिपाठी भारतीयदर्शनं, नव्यन्याय:, सांख्ययोग: तथा न्यायशास्त्र: इत्येतेषां प्रख्यातविद्वान् दार्शनिकश्चासीत्। सः कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य कुलपतिपदं ७ जून, २०२३ दिनाङ्के स्वीकृतवान् ।द्विवर्षीयकार्यकाले एतावता विश्वविद्यालयस्य विकासाय ७० कोटिरूप्यकाणां अनुदानं, तथैव शोधपरियोजनानां, विविधकार्यशालानां, संगोष्ठीनां, सम्मेलनानां च अनुदानं प्राप्तवान् । स्वस्य कार्यकाले वारंगा अन्ताराष्ट्रीय परिसरस्य डॉ. हेडगेवार शैक्षणिकभवनस्य उद्घाटनं सद्यैव 1 अगस्त 2025 दिनाङ्के मुख्यमन्त्री श्री देवेन्द्रफडणवीसः राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालक डॉ. मोहनजी भागवतः च कृतवन्तः। एतदतिरिक्तं शोधछात्रावासः, डॉ. तोतडेसभागार: अपि तस्य कार्यकाले सम्पन्नः ।

संस्कृतक्षेत्रे विविधप्रशासनिकशैक्षणिककार्येषु तस्य विस्तृतः अनुभवः आसीत् । प्रो.त्रिपाठी श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालये नवीदिल्लीनगरे भारतीयदर्शनशास्त्रस्य प्राध्यापकः आसीत् । सः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपतित्वेन अपि कार्यं कृतवान् । प्रो.त्रिपाठी भारतसर्वकारेण महर्षिबादरायणराष्ट्रपतिपुरस्कारेण संस्कृतक्षेत्रे अद्वितीययोगदानेन पुरस्कृतः। एतेषु उत्तरप्रदेशसंस्कृतसंस्थानस्य शङ्करवेदान्तपुरस्कारः, पाणिनीपुरस्कारः, विशिष्ठसेवापुरस्कारः च अन्तर्भवन्ति ।

तस्य निधनस्य विषये संस्कृतस्य भारतस्य च गणमान्यजनाः शोकं प्रकटितवन्तः, तस्य दुर्भाग्यपूर्णं निधनं संस्कृतक्षेत्रस्य महती हानिः इति च उक्तवन्तः ।

महाराष्ट्रस्य महामहिम: राज्यपाल: श्री सी.पी. राधाकृष्णन:, मुख्यमंत्री श्रीदेवेन्द्रफडणवीस:, केन्द्रीयमन्त्री श्री नितिन: गडकरी, राजस्वमन्त्री चन्द्रशेखर: बवनकुले आदय: कुलपते: निधने शोकं प्रकटितवन्त:।

हिमसंस्कृतवार्ताया: प्रबंधनिदेशक: डॉ अमनदीपशर्मा तथा च हिमाचलस्य संस्कृतशिक्षकाणां पक्षतः डॉ मनोजशैल: कुलपते: हरेराम त्रिपाठी महोदयस्य निधने शोकप्रकटित: । असौ उक्तवान् यत् संस्कृतजगत: एक: सूर्य: अस्तंगत:। इयं अपूर्णीया क्षति: वर्तते। हिमसंस्कृतवार्ताया: पक्षतः विनम्रा भावपूर्णा च श्रद्धांजलि:।

You Might Also Like

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

शिक्षा-मन्त्रिणा धर्मेंद्र-प्रधानेन ‘टीचर ऐप 2.0’ इत्यस्य शुभारम्भः कृतः

गृह-मन्त्रालयेन नूतना राष्ट्रियातङ्कवाद-विरोधी नीतिः ‘प्रहार’ इति अनावरिता

गुयाना-देशस्य उपराष्ट्रमन्त्रिणा भरत-जगदेवेन उपराष्ट्रमन्त्रिणा सी.पी. राधाकृष्णन् महोदयेन सह मेलनं कृतम्

TAGGED: प्रो. हरेरामत्रिपाठी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article मतदातासूच्यर्थं प्रचलितायां एसआईआरप्रक्रियायां मतदातृभिः आधारेण सहितं दत्तानि ११ प्रमाणपत्राणि स्वीकारणीयानि भविष्यन्ति
Next Article स्वतंत्रतान्दोलने संस्कृतं संस्कृतविदुषाम् च योगदानम् – आचार्यानिशा खन्ना
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?