फिलीपींस-राष्ट्रपतिः फर्डिनेंड-आर.-मार्कोस-जूनियर भारतस्य पञ्च-दिवसीय-राजकीय-यात्रायां नवदेहलीम् अवाप्तोस्ति
हिमसंस्कृतवार्ता: – भारत-फिलीपींस-राजनयिक-सम्बन्धानाम्-हीरक जयन्ती-वर्षपूर्तिमुपलक्ष्य फिलीपींस-देशस्य राष्ट्रपतिः फर्डिनेंड-आर.-मार्कोस-जूनियर भारतस्य पञ्च-दिवसीय राजकीय-यात्रायाम् नवदेहलीम् अवाप्तोस्ति। तेन साकं प्रथम महिला “लुईस-अरनेटा-मार्कोस” सहितं एकम् उच्चस्तरीयं प्रतिनिधिमंडलमपि यात्रायां आगतम् अस्ति। यस्मिन् नैके मन्त्रि-मण्डलीयाः मन्त्रिणः, अन्ये गणमान्याः जानाः, वरिष्ठाधिकारिणः, व्यापारिक-प्रतिनिधयश्च समाविष्टाः वर्तन्ते। फिलीपींसस्य राष्ट्रपतेः पदभार-ग्रहणस्य अनन्तरं राष्ट्रपति-मार्कोसस्य एषा प्रथमा भारत-यात्रा वर्तते। अस्याः यात्रायाः अवसरे, प्रधानमन्त्री नरेन्द्रमोदी, राष्ट्रपतिः मार्कोसश्च अद्य द्वै-पाक्षिकीं मन्त्रणां करिष्यतः। राष्ट्रपतिः मार्कोसः राष्ट्रपतिं द्रौपदीमुर्मूवर्याम् अपि सम्मिल्ल्य सम्भाषणम् आचरिष्यति। विदेशमन्त्री डॉ. एस. जयशंकरः अपि राष्ट्रपतिना मार्कोसवर्येण समं मन्त्रणां करिष्यति। अत्रान्तरे एकस्मिन् वक्तव्ये, फिलीपींसस्य राष्ट्रपतिः भारतम् एकं महत्त्वपूर्ण मित्रराष्ट्र प्रत्यपादयत्। श्री-मार्कोसः अस्मिन् विषये बलं प्रदत्तवान् यत् सामयिक-लोकतान्त्रिक-मूल्यानि, सामुद्रिकं हितं, क्षेत्रीय-शान्तिः, भारतेन साकं गहनो व्यापकः, सार्थकश्च द्विपक्षीय-सहयोगः अपेक्ष्यते ।
फिलीपींस-राष्ट्रपतिः फर्डिनेंड-आर.-मार्कोस-जूनियर भारतस्य पञ्च-दिवसीय-राजकीय-यात्रायां नवदेहलीम् अवाप्तोस्ति

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment