परीक्षा पे चर्चा गिनीजविश्वविक्रमे प्रविष्टा
प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य प्रमुखपरिकल्पना परीक्षा पे चर्चा ‘एकमासे नागरिकसङ्गतिमञ्चे सर्वाधिकं जनानां पञ्जीकरणं कृतम्’ इति गिनीजविश्वविक्रमे प्रविष्टा अस्ति। एषा मान्यता MyGov मञ्चे कार्यक्रमस्य अष्टमसंस्करणस्य कालखण्डे ३ कोटि ५३ लक्षपञ्जीकरणैः प्राप्तस्य उपलब्धेः प्रमाणम् अस्ति।परीक्षा पे चर्चा श्री मोदी द्वारा परिकल्पित एक अद्वितीयः मञ्चः अस्तति। अस्मिन् प्रधानमन्त्री छात्रैः, शिक्षकैः, अभिभावकैः च सह प्रत्यक्षतया संवादं करोति । नवीनदिल्लीनगरे एकस्मिन् समारोहे आधिकारिकरूपेण गिनीजविश्वविक्रमप्रमाणपत्रं प्रदत्तम्। कार्यक्रमे केन्द्रीयशिक्षामंत्री धर्मेन्द्रप्रधानः, इलेक्ट्रॉनिक्ससूचनाप्रौद्योगिकी, रेलसूचनाप्रसारणमंत्री अश्विनी वैष्णवः उपस्थितौ आस्ताम्। अस्मिन् अवसरे वदन् श्री प्रधानः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे परीक्षा पे चर्चा कार्यक्रमेण अवसादं शिक्षणस्य उत्सवे प्रवर्तयित्वा परीक्षाणां प्रति राष्ट्रियदृष्टिकोणं पुनः परिभाषितम्। सः अवदत् यत् २०२५ तमे वर्षे सर्वेषु मीडियामञ्चेषु “परीक्षा पे चर्चा” इत्यस्य अष्टसंस्करणं २१ कोटिभ्यः अधिकैः दर्शकैः दृष्टम्।
परीक्षा पे चर्चा गिनीजविश्वविक्रमे प्रविष्टा
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
