गुजरातस्य भावनगर-रेलस्थानकात् भावनगर-अयोध्या छावनी इत्यस्य साप्ताहिक-रेलयानस्य उद्घाटनमकरोत् रेलमंत्री अश्विनी वैष्णवः
हिमसंस्कृतवार्ता: – रेलमंत्री-अश्विनी-वैष्णवः गुजरातस्य भावनगर-रेलस्थानकात् भावनगर-अयोध्या-छावनी इत्यस्य साप्ताहिक-रेलयानस्य उद्घाटनं विहितवान्। मन्त्री रेवा-पुणे नगरयोः जबलपुर-रायपुर-नगरयोः मध्ये च अन्यद्वयं रेल-यानम् अपि समुद्घाटितवान्। मन्त्री अवोचत् यत् गत एकादश वर्षेषु चतुःत्रिंशत् सहस्त्रकिलोमीटर यावत् नूतना: रेलमार्गाः स्थापिताः, भारतीयरेल-याने अविरतं परिवर्तनं विधीयते। भावनगर-रेलस्थानके जनसमूहं सम्बोधयन्, सः रेलनेटवर्क इत्यस्य विकासाय, आधुनिकीकरणाय, विस्ताराय च, रेलयाने सुरक्षां स्वच्छतां च सुनिश्वेतुं सर्वकारस्य प्रतिबद्धतां पुनः दृढीकृतवान्। मन्त्री प्रत्यपादयत् यत् देशे त्रयोदशशत स्थानकानां पुनर्विकासः विश्वस्य बृहत्तमा स्थानक-पुनर्विकास परियोजना अस्ति । अवसरेऽस्मिन् केन्द्रीयमन्त्री मनसुख माण्डवीया, निमु बेन बम्भानिया च उपस्थितौ आस्ताम्। मध्यप्रदेशस्य मुख्यमन्त्री मोहन यादवः, छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसाई च कार्यक्रमेऽस्मिन् आभासीयरूपेण भागम् अग्रहीष्टाम्। अस्मिन् अवसरे रेलमन्त्री गुजरातस्य कृतेऽपि घोषणाः अकरोत्। राजकोट, पोरबन्दर, जुनागढ इत्येतेषु मण्डलेषु मूलसौकर्याणां कृते महत्त्वपूर्ण प्रोत्साहनं कृत्वा, पोरबन्दर-राजकोट इत्येतयोः मध्ये नूतना: रेल-सेवाः घोषिताः। एतदतिरिच्य, मन्त्री भावनगर-नौकाश्रये नूतनस्य कंटेनर्-टर्मिनल् इत्यस्य स्थापनायाः घोषणाम् अपि कृतवान्, आगामिषु कालेषु भावनगर-सूरत-नगरयोः मध्ये नूतनं वंदेभारत-रेलयानम् आरभेत इति प्रतिज्ञां कृतवान्।
गुजरातस्य भावनगर-रेलस्थानकात् साप्ताहिक-रेलयानस्य उद्घाटनमकरोत् रेलमंत्री अश्विनी वैष्णवः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
