शिवराजसिंहचौहानः अवदत् कृषकाणां खातेषु प्रत्यक्षं प्राप्ता ₹२०,५०० कोटिरूप्यका सहायता पारदर्शक-शासनस्य आदर्शः
हिमसंस्कृतवार्ताः राघव नाथ झा। प्रधानमन्त्रिणः ‘कृषक-सम्मान-निधि-योजना’ नाम्नि योजनायाः विंशतितमे भागे अन्तर्गतं वाराणसी-नगरात् माननीय-प्रधानमन्त्री श्रीनरेन्द्रमोदिन सम्पूर्णदेशस्य ९.७० कोटिकृषकाणां खातेषु ₹२०,५०० कोटिरूप्यकाणां सहायता-राशेः प्रत्यक्षं अन्तरणं कृतम्। एतेन ऐतिहासिके सन्दर्भे सम्पूर्णे राष्ट्रे ‘पीएम्-कृषकोत्सव-दिवसः’ उल्लासेन समारब्धः। अस्य योजनायाः राज्यस्तरीयं समारोहः बिहार-राज्ये अत्यन्तं भव्यं, शोभनं च वातावरणे सुसम्पन्नः।एतस्मिन् समारोहे माननीयः उपमुख्यमन्त्री-सह-कृषिमन्त्री श्रीविजयकुमारसिन्हः अध्यक्षतां कृतवान्।माननीयः केन्द्रकृषिमन्त्री श्रीशिवराजसिंहचौहानः बापू-सभागारे उपस्थितः सन् कृषकान् सम्बोध्य राष्ट्रस्य कृषकसमुदायं प्रति शुभाशयाः प्रकटितवान्।सः सर्वान् महिलाकृषकान् प्रति ‘रक्षाबन्धनस्य’ पूर्व-शुभाशिषः दत्त्वा अवदत्—”कृषिः भारतीय-अर्थव्यवस्थायाः मेरुदण्डः। एषा योजना कृषकाणां जीवनं नूतनया शक्त्या सञ्चिनोति।”समारोहे बिहार-राज्यस्य वरिष्ठ-मन्त्रिगणः अपि सान्निध्यं कृतवन्तः, यथा—श्रीमती रेणुदेवी (पशु-मत्स्य-संसाधन-मन्त्री),डॉ॰ प्रेमकुमारः (सहकारितामन्त्री),श्रीमङ्गलपाण्डेयः (स्वास्थ्य-मन्त्री),श्रीनितिननवीनः (पथ-निर्माण-मन्त्री) इत्यादयः।राज्य-कृषक-आयोगस्य अध्यक्षः श्रीरूपनारायणमेहतः, कृषिविभागस्य प्रमुख-सचिवः श्रीपङ्कजकुमारः च अपि सभामञ्चं विभज्य स्वसन्देशं प्राकटयन्।श्रीपङ्कजकुमारः स्वागत-सम्बोधनं कुर्वन् अवदत्— “कृषकस्य समृद्धिः एव राष्ट्रस्य समृद्धिः। एषा योजना अतीव सहायकत्वेन युक्ता। बिचौलिनां विना प्रत्यक्षं सहाय्यं कृषकाणां खातेषु आगच्छति, यत् शासनस्य पारदर्शकत्वस्य प्रतीकम्।
“माननीयः उपमुख्यमन्त्री श्रीविजयकुमारसिन्हः स्वभाषणे अवदत्—”कृषिक्षेत्रे क्रान्तिकारी-परिवर्तनानि सुस्पष्टानि। एषा सहायता-राशिः कृषकानां प्रति सम्मानचिह्नरूपेण तेषां खातेषु प्रत्यक्षं आगच्छति।”सः पुनः अवदत्—”भारतं ग्रामेषु वसति। ग्रामाणां आत्मा कृषकः। कृषकः यदि सशक्तः स्यात्, तर्हि राष्ट्रं अपि सशक्तं भविष्यति।”सः बलं दत्त्वा अवदत्—”बिहार-राज्यः कर्षिकं लाभजनक-व्यवसायं कर्तुं सततं प्रयत्नशीलः। उत्पादनस्य वृद्धिः, व्ययस्य न्यूनता, विपणिना सह सम्बन्धः च अस्माकं प्राथमिकताः।उर्वरकस्य सुगम-आपूर्तिः, वितरणं च सुनिश्चितं क्रियते। कालाबाजारी-नियन्त्रणाय सक्ततया प्रयत्नः अपि कृतः।”
माननीयः कृषिमन्त्री श्रीशिवराजसिंहचौहानः अवदत्—”यशस्वी प्रधानमन्त्री श्रीनरेन्द्रमोदिना कृषकस्य सशक्तिकरणं दीर्घकालीन-स्वप्नरूपेण दृष्टम्। अद्य ११ कोट्यधिक-कृषकाः प्रतिवर्षं ₹६,००० रूप्यकाणां प्रत्यक्षं सहायता-रूपेण लाभं विना भेदभावं प्राप्नुवन्ति।
बिहारराज्येऽपि लक्षाधिक-कृषकाः अस्य लाभं प्राप्नुवन्ति।”
सः अपि उक्तवान्—”बिहारभूमिः गौरवास्पदा। अत्र यदा बीजं रोप्यते तदा विकासपुष्पाणि प्रस्फुटन्ति। अत्र विज्ञानं, दर्शनं च समृद्धं दृश्यते। अत्रजनानां परिश्रमस्य ख्यातिः अखिलं जगत् स्वीकरोति।”
प्रधानमन्त्रिणः ‘स्वदेशी-वस्तूनां उपयोगः’ इत्यस्य अपीलं समर्थनं कुर्वन् सः अवदत्—
“स्वदेशीवस्तूनां सेवनमेव आत्मनिर्भर-भारतस्य पन्थाः। ‘वोकल् फॉर् लोकल्’ इत्येतत् केवलं न नारायण-वाक्यम्, अपि तु राष्ट्र-निर्माणस्य मन्त्रः।एतत् जनान्दोलनं भवतु, देशस्य अर्थव्यवस्था च सुदृढा जयतु।”
शिवराजसिंहचौहानः अवदत् कृषकाणां खातेषु प्रत्यक्षं प्राप्ता ₹२०,५०० कोटिरूप्यका सहायता पारदर्शक-शासनस्य आदर्शः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment