By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: गृहमन्त्री अवदत् आपरेशन ‘महादेव’ इत्यस्यान्तर्गतं पहलगाम आत‌ङ्किङ्क-आक्रमणे संलग्नाः त्रयः आतङ्कवादिनः व्यापादिताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > गृहमन्त्री अवदत् आपरेशन ‘महादेव’ इत्यस्यान्तर्गतं पहलगाम आत‌ङ्किङ्क-आक्रमणे संलग्नाः त्रयः आतङ्कवादिनः व्यापादिताः
राष्ट्रीयवार्ताः

गृहमन्त्री अवदत् आपरेशन ‘महादेव’ इत्यस्यान्तर्गतं पहलगाम आत‌ङ्किङ्क-आक्रमणे संलग्नाः त्रयः आतङ्कवादिनः व्यापादिताः

डॉ.अमनदीप शर्मा
Last updated: 2025/07/30 at 8:28 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

आपरेशन ‘महादेव’ इत्यस्यान्तर्गतं पहलगाम आत‌ङ्किङ्क-आक्रमणे संलग्नाः त्रयः आतङ्कवादिनः व्यापादिताः, शततः अधिकाः आत‌ङ्कवादिनः सिन्दूराभियाने च मारिताः – गृहमन्त्री अमितशाहः ।
हिमसंस्कृतवार्ता: – लोकसभायां आपरेशन-सिन्दूर-विषये विशेष चर्चा पुनः आरब्धा । चर्चावसरे गृहमन्त्री अमितशाहः अवदत् यत् “आपरेशन महादेव” इत्यस्यान्तर्गतं भारतीयसेना, सी. आर्. पी. एफ्., जम्मू-कश्मीर्-आरक्षकाः च पहलगाम आतङ्कि-आक्रमणे संलग्नान् त्रीन् आतङ्कवादिनः व्यापादितवन्तः। सः अवदत् यत् आतङ्कवादिभ्यः त्रीणि भुशुण्डी अस्त्राणि गृहीतानि, यानि पहलगाम-आक्रमणे प्रयुक्तानि आसन्। सुलेमान् शाहू, जिब्रान्, हम्जा अफ़्थानी च इत्येते त्रयः आतङ्कवादिनः सफलतया उन्मूलिताः । श्रीशाहः अवदत् यत् सुलेमान् एकः ‘ए’ प्रवर्गस्य आतङ्की आसीत्, यः पहलगाम-आक्रमणे गभीरतया संलग्नः आसीत् । गृहमन्त्रिणा उक्तं यत् अन्वेषणाभियानान्तर्गतम् एकशताधिकाः जनाः पृष्टाः, सङ्गृहीतानां सूचनानाम् आधारेण संमिश्र रेखाचित्राणि च निर्मितानि। सः अवदत् यत् तदनन्तरं जूनमासस्य द्वाविंशतिदिनाङ्के, बशीर् तथा च पर्वेज् इति द्वे व्यक्ती आतङ्कवादिभ्यः आश्रयं दत्तवन्तौ । सः अवदत् यत्, आपरेशन-सिन्दूर इति अभियानं मईमासस्य सप्तमे दिनाङ्‌के प्रातः चतुरधिकेकवादनतः चतुर्विंशत्यधिकेकवादन – पर्यन्तं सञ्चालितम्। अस्मिन् अभियाने पाकिस्तानस्य नव-आतङ्कवादिस्थलानि नष्टानि कृतानि, शततः अधिकाः आत‌ङ्ङ्किनः व्यापादिताः च । अस्मिन् आक्रमणे पाकिस्तानस्य सामान्यनागरिकाः न मृताः, लक्ष्यानि च पाकिस्तानस्य अन्तः शतं किलोमीटर्-परिमिते दूरे आसन् । सः सबलं प्रतिपादितवान् यत् नरेन्द्रमोदी-सर्वकारस्य आतङ्कवादं विरुध्य शून्य-सहिष्णुतायाः नीतिः वर्तते। श्रीशाहवर्यः अवदत् यत् पहलगाम-आतङ्कवादि-आक्रमणे निर्दोषाः पर्यटकाः स्वपरिवारस्य पुरतः क्रूरतया मारिताः। प्रत्युत्तरे प्रधानमन्त्री नरेन्द्रमोदी अविचल-संकल्पेन कार्यं कृतवान् तथा च आपरेशन-सिन्दूर अधिकृतवान् ।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article कोऽपि विश्वनेता भारतम् ऑपरेशन सिन्दूरं स्थगितुं न आह-लोकसभायां प्रधानमन्त्री
Next Article राष्ट्रिय-शिक्षा-नीतिः भारते वैश्विकस्तरीयशिक्षायाः कृते मार्गदर्शनं विदधाति – शिक्षामंत्री धर्मेन्द्र प्रधानः ।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?